SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ विवाहे पाककर्तृणां योग्यतावर्णनम् १३ पित्रोः प्रत्याब्दिकश्राद्धमनेनैव समन्त्रकम् । स्वपन्नीबन्धुहस्तैककृतान्नेन समाचरेत् ।। न्यायार्जितेनेक्षितेन प्रोक्षितेनातिभूतिना । सम्यक् स्पर्शयते नापि पृथिवी तेतिमन्त्रतः॥ ब्राह्मणाभावे अनुकल्पः कदाचिद्दर्लभे विप्रे भोक्तं कीकटदुर्गमे । कृत्वा सव विधानेन समन्त्रं तदनन्तरम् ।। अन्नत्यागं क्षितौ कृत्रा परिषिच्या (?) नं ततः । . प्राणापानादिभिर्मन्ौः यावद्द्वात्रिंशदाहुतीः॥ जुहुयादनले सम्यङ्मधुवातादिपूर्वकम् । सव कर्म समाप्याथ पिण्डदानं समाचरेत् ॥ परेऽह्रि तर्पणं कुर्यादथवा शम्बरेऽखिलम् । तदन्नं निक्षिपेद्वापि सर्वमूह्यं ततः परम् ॥ उत्तराङ्गच निखिलं विप्राभावे त्वयं विधिः । अलाभे श्राद्धभोक्त्तृणां तस्मिन्नहनि केवलम् ।। येन केन प्रकारेण श्राद्धं कृत्वा ततः पुनः । विप्रसंलब्धितः पश्चात् अन्नश्राद्धं समन्त्रकम् ॥ प्रत्याब्दिकाख्यं कुर्वीत न चेषण्डालतामियात् । नष्टतातो विप्रमात्रः प्रत्यब्दाख्यं विधानतः ॥ स्वान्नेनैव स्वहस्तेन स्वगृहे तत्समाचरेत् । कदाचित्स्वगृहे देवाद्दुर्लभे सति तहिने । यस्य कस्य गृहं वापि तदा विक्रयणादिना । श्वयत्वेनैव संपाद्य कृत्वा तत्स्वामिवाक्यतः॥ तस्मिन् ततस्तत्कुर्यात्तु न कदाचित्पराश्रये । विवाहेऽन्नस्य पाकाय सर्वे बन्धुजनाः पराः॥
SR No.032672
Book TitleSmruti Sandarbh Part 06
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages426
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy