________________
१५२
मार्कण्डेयस्मृतिः ये के वा तान्न जानीमः तत्पिता कोऽपि कीर्तितः ।
नानयोः पितृपुत्रत्वधर्मोऽयं वा कथं भवेत् । आदीयापोशनयुगजलदाता कथं पितुः । सुतो भवेदयं मूढस्तस्मादेतस्य केवलम् ॥ तस्मिन् कर्मणि कर्तृत्वं सर्वश्राद्ध षुसन्ततम् । आपोशनद्वयजलदानतो नान्यतो मतम्॥ अग्नौ कृतेषु श्राद्धषु विप्राभावप्रयुक्तितः । अर्ध्या च मारकीलादे भूमावेव विनिक्षिपेत्॥ आपोशनद्वयजलमात्रं केवलमुच्यते । अग्नावेव प्रदेयं स्यादिति वेदानुशासनम् ।।
एवं स्थिते प्राकृतेऽस्मिन् श्राद्ध प्रत्याब्दिकादिके।
विप्रहस्तेद्यतयोश्चापोशनद्वयशम्बरम् ॥ प्रदेयमस्मिन्नित्यर्थे को वा स्याद्विशयोऽधुना । पुत्रहस्तजलंयत्तस्रोक्षितं विक्षितं तथा ॥ वस्तुजातं स्नुषापर्क पितृणाममृतं भवेत् । अपिपुत्रशतैर्जातैः तर्पणं पैतृकं तु यत् ॥ न नष्टं प्रभवत्येव यथापोशनपाथसा । जातस्य पुत्रमात्रस्य तदेव फलमुच्यते ॥ आपोशनद्वयजलप्रदानं श्राद्धकर्मणि । विप्रहस्ते भुक्तिकाले नान्यद्यत्तु तथा स्मृतम् ॥ पित्र्येषु वा दैविकेषु सन्ततं भुक्तिकर्मसु । विप्रहस्ते स्वहस्तैकदत्तं के विश्वकृत्यकृत् ॥
कर्तृहस्तप्रत्तजलं स्वीकुर्यान्न तु योऽपि वा। स नास्य वन्द्यः स्वीकार्यो वामदेवो गदाधरः॥ व्यासः पराशरो वापि स साक्षात्कव्यवाहनः । दैवत्वेन पयं भाव्यो विप्रो विप्रस्य सन्ततम् ॥ स एवापोशनजलगाहकः प्राश्य एव हि । यस्यान्नं यः समश्नाति तस्य न स्यात्पितेव वै॥ वन्यः पूज्य उपास्यश्च प्राहकोऽन्यो न चापरः।
भावदुष्टो न भोज्यः स्या (......) रोगरिक्तकः॥ दुर्मुखः पिशुनोरुक्षः पक्तिहा पङ्क्तिदूषकः । भुक्तिकाले विप्रपङ्क्ति पात्रानगाप्रदूषकः मुच्छिष्टादिना पापिपक्तिहेति प्रकीर्त्यते । पितृश्राद्धत्रयं यो वा विप्राभावे न केवलम् आमे व प्रकुर्याच्चत्पुनस्संस्कारमर्हति । सर्वयलेन महता प्राणैः कण्ठगतैरपि ॥