________________
आपोशनजलप्रदातारः पुनस्समानापरमा श्राद्धयोग्येति सा श्रुतिः। कन्यादानेनैव भवेत् किंतु तादृग्विधः परः एकभाषाजातिकस्तु संग्राह्यः संभवेद्धि वै । जायापत्योः कन्यादाने कर्तृत्वमुभयोरपि। एकासनस्थयोर्दर्भहस्तयोः स्नातयोस्सतोः। श्राद्ध तु सर्वपुत्राणां तादृशाना तदुच्यते ॥ नात्रासनं तु पत्नीनां पैतृकेषु कदाचन । एकत्र सन्निवासश्च तच्छुचित्वं च वैधतः ॥
तस्मिन्काले सुविहिते न कदाप्येकमासनम् । भ्रातृणामपि भक्तानां श्राद्धकालेषु सन्ततम् ॥ ज्येष्ठेन सह भावः स्यान्नान्यो धर्मोऽस्ति धर्मतः । प्रदक्षिणनमस्कारौ श्राद्धान्ते संप्रकीर्तितौ ॥ पित्र्युद्देशेनविप्राणां तत्पत्नीनां जनस्य च । शिष्टस्य निखिलस्यापि सर्वशास्त्रेषु चोदितः॥ अत्यल्पमपि तद्वच्मि शेयं तल्लौकिकेष्विति ।
भ्रातृणामिति सर्वेषां शुचिनां दर्भपाणिनाम् ॥ तदङ्गतर्पणं कुर्यान्न कुर्याद्व (... ) यः । पादप्रक्षालनं तस्मिन् मधुपर्के वरस्य वै ॥ पत्न्यर्पितजलेनैव कायं भवति शास्त्रतः । नैवं श्राद्ध प्रकुर्वीत पादप्रक्षालनं परम् ॥
द्विजानामिति तस्मात्तु स्वार्पितेनैव पाथसा॥
आपोशनजलंप्रदातारः आपोशनद्वयजलं मधुपर्के विशेषतः । पल्या प्रदेयमेव स्यात् तद्रव्यं च तथैव हि ॥ प्रदेयमथवा क; यथाचारं तदिष्यते। श्राद्ध त्वापोशनजलद्वयं कत्रैव केवलम् ॥ प्रदेयं शास्त्रतो धर्मान्न तु पन्या कदाचन । तदापोशनकीलालतत्पुत्रत्वैकनिष्क्रयम् ॥ प्रतिवर्ष भवत्येव तस्माइयं स्वहस्ततः। तदापोसनकीलालं तादृशं पितरोऽस्य वै॥ पुत्रदत्तं प्रकाङ्क्षन्ते पातुं विप्रमुखेन वै । ये तस्मात्पितृकामार्थ प्रत्यब्दादिषु भक्तितः॥ आपोशनद्वयजलं विप्रहस्ते स्वहस्ततः । मुञ्चन्ति भुक्ता तनया त एव स्युर्न चेत्तु ते॥
तज्जाता न भवन्त्येव नास्येते तनयाः स्मृताः। नैषां पिता सो न भवेत् मातार परा वृथा।