SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ मार्कण्डेयस्मृतिः — कन्यादानवरलक्षणम् दानानि सुमहान्स्यत्र बन्धुष्वेव न चान्यतः । तत्रादौ कन्यकादने बन्धुत्वं रूपमेव च ॥ मनचक्षुनिबन्धश्च ख (......... ..)। आत्मतुष्टिविशेषेण निमित्तानि परस्परम् ।। प्रेक्षणीयानि पश्चात्तु सुविद्या च कुलीनता । सौमुख्यं धर्मसंपत्तिः धनसंपत्तिरेव च ॥ प्रेक्षणीयाश्च तस्मात्तु बन्धुत्वं सर्वतोऽधिकम् । गुणानां प्रमुखं प्रोक्तं कन्यादाने हि सन्ततम् ।। अशेषाणां च वर्णानां अशेषेष्वपि वच्मि वः । देशेषु सत्कुलीनत्वं प्रवरं चोभयं ततः॥ तदन्वीक्ष्व विशेषेण किंचिन्न्यूनाय जातितः। गुणतो धर्मतो वापि क्रियात वाथवा तथा ॥ पौरुषाद्धनतो वापि विद्यातः संपदादिभिः । अपरायैव (... .. ...) नाधिकाय स्वयमतः॥ अधिकाय ते दाने कन्यायास्तत्परं परम् । सर्वलौकिककृत्येषु सामीचीन्यं न संभवेत् न वैदिकम्त्येष प्रभवेदाधकं न तु । समीक्ष्यैवं चिरात्पश्चात् समीपेष्वेव बन्धुषुः।। निमिपूज्मेष्वेव तादृशेष्वेव यमतः । प्रकर्तव्यो मानिनः स्यात् संबन्धः शाससंमतः॥ विरोधयोन कर्तव्यः पित्रोः श्राद्धं तु केवलम् । योनिगोत्रादिसंबन्धरहिते ज्ञातसत्कुले। सर्वमत्युपकारकविहिने वेदसन्ततौ । अनूचाने शुद्धकच्छेसंपूर्णाङ्गऽपि सद्गुणे॥ प्रदेयं शास्त्रमार्गेण पात्रमेतादृशं यदि । असंभवे भिन्नजातौ खजातौ वा तथाविधम्॥ पात्र वीक्ष्य यत्नेन पश्चादातव्यमेव वै। जातिशब्देनात्रपरं समभाषैव सा पुनः॥ एकमात्र विशेया नान्यभाषा निगद्यते । एकस्यामेव भाषायां जातयो देशसंभवाः ।। भिन्नभिन्नास्संभवन्ति संबन्धस्तादृशासु चेत् । न कर्तव्यो भवेदेव श्राद्धमात्राय चेदलम् ॥ नाभिन्ना तु पराप्रोक्ता भाषे का शाखसमता । भाषैत्येसति तद्भिन्नजातिराचारमात्रतः॥
SR No.032672
Book TitleSmruti Sandarbh Part 06
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages426
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy