SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ नान्दीश्राद्धादिषु मर्यादावर्णनम् १४६ तेषां पूजा तथा शेया श्राद्धकृत्येषु चेत्तदा । तद्भोक्त्तृणां तत्र चापि पूजाक्लप्तिरियं स्मृता । विश्वेषां किल देवानां आदौ सा शास्त्रचोदिता। पितुः पितामहस्याथ तत्पितुश्चेति तत्क्रमः । मातुः श्राद्ध मातृवर्गः पैतृको नात्र वै भवेत् । पितुः श्राद्ध तथैव स्यान्मातृवर्गश्च धर्मतः॥ यस्य यस्य भवेच्छ्राद्धं वर्गस्या (?) स्य च । अन्यश्राद्धऽन्यवर्गस्य संप्राप्तिायशास्त्रगाः॥ कथं भवेदेवमेव होमब्राह्मणभोजने । पिण्डदानं च तस्यैव वर्गस्य नियमाद्भवेत् ॥ तदसाधारणं श्राद्धं मृताहाख्यं प्रचोदितम् । पितृणामपि सर्वेषामेकमेव न चेतरत्॥ दर्शाधि(दि)कं तु यच्छ्राद्धं सर्वसाधारणं परम् । पित्रादीनां त्रयाणां च यतः साधारणं स्मृतम् ॥ जथा मातामहानां च दर्शादिर्न तथापरः। मृताहोऽयं यस्य वा स्यात् तद्वर्गस्येति निश्चयः अष्टका नवदेवत्या मातृवर्गोऽत्र विद्यते । नान्दीश्राद्ध गयाश्राद्ध मातृभाद्ध तथैव च ।। एवं किलैव मर्यादा श्राद्धानां समुदीरिता । अष्टकासु च वृद्धौ च गयायां च मतेऽहनि मातुः श्राद्धं पृथक् कर्यादन्यत्र पतिनासह । तस्माद्दर्शादिकृत्येषु पित्रा सह किल क्रिया निखिलापि प्रकर्वव्या यतो दर्शस्तु सर्वदा। षड्दैवत्यः प्रकथितः तादृशेषु तु मौन्यतः॥ ___ मातुः क्रियां पृथक् कुर्याच्छाद्धषुपतिना विना । स पित्रोस्तनयो मूढ एतत्संयोगविभागकृत् ॥ सह क्रियामात्रतस्तु तयोः संयोगसौख्यदः । प्रतिश्राद्धषु कथितस्तथावस्तत्समाचरेत्।। तदेतदास्तां तत्सवं प्रसक्तानुत्रसक्तितः । तासु तासु क्रियाह्नासु तेतेस्युः पूर्वगा मवा।। दानेवपि तथा झेयाः केषुचित्पूर्वगास्तराम् । किंचित्प्रत्युपकारकशून्यानामेव केवलम्।। ब्राह्मणानां सुपात्राणां सर्वदानानि चोचिरे । कर्तव्यत्वेन विद्वांसः पुनरप्यत्र कानिचित्॥
SR No.032672
Book TitleSmruti Sandarbh Part 06
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages426
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy