SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ १४८ मार्कण्डेयस्मृतिः तद्भ्रातरो मातृगोत्राः पितृगोत्राश्च बान्धवाः । पश्चादाचार्यवृन्दाः स्युः पूर्वोक्ता निखिला अपि ।। गुरुपूजाक्रमः पादपूजाकियास्वेवं संप्रायाः क्रमशः सदा । तेषु तेषु च कार्येषु तेषां तेषां तथा तथा ।। सम्यक्पूजा प्रकर्तव्या तत्पात्रं ते तथा स्मृताः । सभापूजादिकार्येषु गुरुपूजाग्रिमा मता विवाहादिषु सर्वेषु शुभकर्मसु केवलम् । वैदिकेष्वखिलेष्वेषु लौकिकेष्वपि केवलम् ॥ गुरुपूजा प्रथमतः धिषणोऽत्र गुरुर्मतः । ग्रामदेशस्थया पूर्व धिषणस्यापि देवयोः ॥ तयोरीश्वरयोः पश्चादाचार्यादि क्रमेण वै । महोद्योगिज्ञानियज्ववेदी श्रोत्रियसूरिणाम् पूजासभाया य ( १ ) क्रमेणैवं महात्मनाम् । दीक्षाबीजेन कुर्याद्धि विशेषेषु तथा पुनः सोमप्रवाकादीनां वरणक्रमेण पूजाक्रमः सोमप्रवाकपूर्वेण मधुपर्कवदीरिता । सोमप्रवाकः प्रथमो द्वितीयोऽध्वर्युरुच्यते ॥ ब्रह्मा तृतीयः संप्रोक्तः सदस्यस्तु कृताकृतः । सर्वज्ञोऽयं दरिद्रश्वेद्यजमानस्तदा पुनः ॥ सोमप्रवाकश्च तथा न मुख्य इति केचन । अनिष्टोमे प्राथमिके विभने सति केवलम् ॥ सति चित्ते यथोत्साह ( १ ) पूर्व चोदितः । तथा सोमप्रवाकोऽपि मुख्यत्वेनैव सर्वदा ।। प्राह्म एव नितरां वत्र कर्मणि केवलम् । यदि प्रयोगबाहुल्ये संज्ञा ते यजमानतः ॥ यूपैकादशिनी पश्वेकादि (द) शिन्यादिमार्गतः । तदा ते वै विशेषेण संग्राह्मावेव केवलम् ॥ बहवो यदि तज्ज्ञाः स्युस्तादृक्कर्मणि चेन्मनः । सोमप्रवाकबाहुल्य सदस्यानन्त्यमेव च ॥ अंगीकार्य विशेषेण तेन श्रेयो महद्भवेत् । होता चतुर्थः संप्रोक्तः तथोद्गाता च पञ्चमः ॥ अन्ये स्पष्टाः (१) द्वितीयाश्च तृतीयकाः । तुरीयकाः स्पष्ट एव तत्क्रमेणैव सन्ततम् ॥
SR No.032672
Book TitleSmruti Sandarbh Part 06
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages426
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy