SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ मधुपर्कयोग्यानां वर्णनम् वैश्वदेवब्रह्मयज्ञो तदोपासनकर्मणाम् । देवपूजास्थालीपाक श्राद्धमन्त्रप्रवाचकः॥ त एव गुरवस्त्वाद्याः पश्चाद्वेदादिबोधकः । महामन्त्रोपदेष्टा च काममन्त्रौषबोधकः॥ ब्रह्मविद्याबोधकोऽपि गुरवः कीर्तिताः सतः । चेतसा दत्तमेतेभ्यो घनन्तफलदायकम् ॥ एतेभ्यः प्रथमं देयं सर्वकर्मसु सन्ततम् । तिष्ठत्वेतेषु नान्येभ्यो दद्यादेव तु धर्मतः॥ दत्वैतेभ्यः प्रथमतः पश्चाद्धर्मक्रमेण वै। अन्येभ्योऽपि महद्भ्यः स्यात् प्रदेयं यं च कंचन ॥ विमुखं नैव कुर्वीत सुमुखान्नैव कारयेत् । तिष्ठत्वेतेषु सर्वेषु महत्सु किल तत्पुरः॥ श्रोत्रियाचार्यविग्बन्धुश्वशुराणां सपर्पणम् । अब्दात्पुरादागतानां मधुपर्केण चोदितम् ॥ _ तथैव सर्वपुरतो यज्ञादिष्वित्विंजामपि ॥ मधुपर्कयोग्या: वैधोऽयं मधुपर्कः स्यात्तथैव हि महोसवे । सीमन्तोन्नयने पुंसवने स्वयसागमे । गर्भाधाने विवाहान्ते फलदाने तथाविधे । श्वशुरस्याग्रपूजा हि प्रकर्तव्या विशेषतः॥ ___ तदभावे भ्रातरोऽस्य तत्पुत्रा वा तदीयकाः। अग्रगण्याः शास्त्रक्लप्तास्तादृशेष्वपि केवलम् ।। विद्यमानेषु सर्वेषु महागुरुपु तत्पुरः । तदा विवाहमध्येऽपि राजहोमे कृतेऽथ च ॥ , पत्नी सोदर्यस्य तस्य बालस्यापि विशेषतः । पूजा बहुमतिः कार्या गुरुंस्त्यक्त्त्वैव सन्निधौ ॥ तेषामेव विशेषेण परा संभावना शिवा । बहुना किं तथा पित्रोः पूजाकर्मणि घागते ॥ शुभकर्मसु सर्वेषु दिव्ये पुण्याहवाचने । मातृपूजा प्रथमतः ताते पश्यति चोदिता ।। पश्चात्तातस्य संप्रोक्ता श्रुतिमार्गानुसारिणी । तयोर्मुरुषु तिष्ठत्सु पश्यत्स्वपि विशेषतः॥ तयोहि पूजा कर्तव्या तत्पश्चाच्छास्त्रवर्मना। तद्गुरूणां प्रकथितास (1) पूजा महती तदा क्रमश्लोकोऽत्र पूजायाः भार्गवेण पुराकृतः । तमहं संप्रवक्ष्यामि तज्ज्ञप्त्यै शुभकर्मसु ।। तात तत्ताततत्तात मातामहपितृव्यकाः । तद्भातरः क्रमादेषां श्वशुराः मातुलाः परे।
SR No.032672
Book TitleSmruti Sandarbh Part 06
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages426
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy