________________
१४६
मार्कण्डेयस्मृतिः
आचार्यलक्षणम् अध्यापयेत्तु यः शिष्यान् कृतोपनयनान् स्वयम् ।
निरपेक्षकृपावासः सरहस्यान् सकल्पकान् ॥ वेदान् वेदो तथा वेदं तदथ शास्त्रजालकम् । प्रवदन्ति तमाचार्य महात्मानं मनीषिणः॥
उपाध्यायगुरुऋत्विगादिलक्षणम् एकदेशं तु वेदस्य वेदाङ्गान्यपि वा पुनः। योऽध्यापयति भृत्यर्थ उपाध्यायः स उच्यते ॥ निषेकादीनि कर्माणि यः करोति घृणायुतः ।
कारयत्यपि वा प्रीत्या निरपेक्षोऽनसूयकः॥ दरिद्रकालेऽप्यत्यन्तशून्ये ब्राह्मणदुर्घटे । संभावयति चान्येन तारयन्नेनमिच्छया॥
कृपणोऽयमिति ज्ञात्वा स विप्रो गुरुरुच्यते।
अग्न्याधानं पाकयज्ञान् अमिष्टोमादिकानपि ॥ कारयेद्यदि नूनं स ऋत्विग्भवति केवलम् । अग्न्याधाने य अध्वर्युर्भवेदस्य स उच्यते दीक्षागुरुमहान् नित्यं गुर्वाचार्यसमश्च सः। गुरूणां प्रथमं दानं दद्याष्ठमनुक्रमात् ॥ ततोऽन्येषां तु विप्राणां दद्यात्पात्रानुरूपतः । गुरोरभावे तत्पुत्रं तत्पुत्रं तत्सुतं तथा ॥ तत्कलत्रं तदौहित्रं अन्यं वा तत्कुलोद्भवम् । संभावयित्वा दानेषु फलकर्मसु सन्ततम् ॥ शच्या प्रमेयमेवस्यादृस्विगाचार्ययोस्ततः । पञ्चयोजनमध्ये वा श्रूयते वा गुरुयदि ॥ तदा नातिक्रमेहानंदयात्पात्रेषु तत्परम् । सममब्राह्मणे दानं द्विगुणं ब्राह्मणब्रुवे ॥ श्रोत्रिये शतसाहस्रमनन्तं वेदपाठगे । तत्सहस्रगुणं प्रोक्त गुरौ दत्तं तु यत्पुनः॥ दीक्षागुरौ तथा ज्ञेयं उपाध्याचार्ययोरपि । आर्यशब्दोगुरूणां तु वाचकोऽयं भवेत्किल॥
जातकादि क्रियाजालकारको योऽस्य केवलम् । सन्ध्यामिकार्यमन्त्राणां तत्स्वाधीनैककारकः॥