SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ षड्विधब्राह्मणवर्णनम् १४५ विवाहमौञ्जीयज्ञार्थे सत्रार्थे वा विशेषतः । तत्कोटिगुणितं यत्तु दत्तं सर्व न संशयः॥ एतदत्तसमं तत्स्यात् ग्रहणे चन्द्रसूययोः । प्रदत्तं विप्रमाणे तु कृतोपनयने पुनः॥ अनुपेते प्रदत्तं यत् न तहानं प्रचक्षते । तथैव कन्यकादत्ते मूकान्धवधिरेषु च ॥ विप्रवीर्यसमुत्पन्नमात्रेभ्यो दत्तमप्युत । प्रत्तं तद्वसुपुण्याय भवेदेव न संशयः॥ तथैव प्राणिमात्रेभ्यो देहिभ्यो वा विशेषतः । यहत्तं कृपया तुभ्यं पारलोक्याय केवलम् ॥ अब्राह्मणास्तु षट्प्रोक्ताः तान् वक्ष्यामि क्रमेण वः। आद्यो राजभृतस्तेषां द्वितीयः क्रयविक्रया॥ यो जीवति स दासोऽयं द्वितीय इति चोदितः। तृतीयस्तु सदासर्वयाजनेनैव केवलम्॥ वर्जावर्जादिराहित्याद्यो जीवति दुराशयः । अपङ्क्तियोग्योभोज्यानवैद्यदेवलयाजनात् ।। स एव कथितः सोऽयंमकर्माहांश्च (१) सन्ततम् । सर्ववर्णसमायुक्त्यामयाजी तुरीयकः। अब्राह्मणः प्रकथितः दुष्टबुद्धिदुराशयः । प्रामस्य नगरस्यापि सर्ववर्णसमत्वतः ।। पौरोहित्यकरस्तेन जीवन्नब्राह्मणः परः।। अनादित्यां तु यः पूर्वा सादित्यां पश्चिमा तथा ॥ नोपासीत द्विजः सन्ध्या सषष्ठोऽब्राह्मणः स्मृतः। अपुत्रो ह्यनधीयानः परप्रेष्यो जितेन्द्रिमः॥ परपिण्डाशनो नित्यं यो वा स्याद् ब्राह्मणवः । विप्राप्रियो विप्रद्रोही विप्रदूषणकृत्सदा विप्रनिन्द्यो विप्रवस्तुद्रव्यगेहादिहृत्सदा । विप्रब्रुव इति ख्यातो निन्द्योऽसौ वेदकर्मणाम् ॥
SR No.032672
Book TitleSmruti Sandarbh Part 06
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages426
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy