________________
१४४
मार्कण्डेयस्मृतिः ब्रह्मवादी ब्रह्मविश्च स्युरेते चोत्तरोत्तराः । ब्राह्मणाः प्रथमं वेदे चरित्रे तदनन्तरम् ।। सद्गुणे सत्यवचने त्यक्तकोपे दयाश्रये । समालोक्क्या विशेषेण न वेदादिपु केवलम् ।। तेषां परः परश्रेष्ठो विद्यावेत्तादिभिर्गुणैः । ब्राह्मणानां कुले जातो जातिमात्रो यदा भवेत् अनुपेतः श्रियाहीनः मात्रज्ञोह्यः भिधीयते। एकदेशमतिक्रम्य वेदस्याचारवानृजुः ।।
न च ब्राह्मण इत्युक्तो निभृतः सत्यवाग्घृणी।
एका शाखां सकल्पां च षड्भिरंगैरधीतवान् ॥ षट्कर्मनिरतो विप्रः वा को नाम महानयम् । वेदवेदाङ्गतत्त्वज्ञः शुद्धात्मा पापवर्जितः॥ शेषं श्रोत्रियवत्प्राप्तः सोऽनूचान इति स्मृतः । अनूचानगुणोपेतो यज्ञः स्वाध्याययन्त्रितः नित्याग्निहोत्री दर्शादिकरो वर्षपशोस्तथा। अनुष्ठाता नित्यशुचिः भ्रूण इत्युच्यते बुधैः
एवं प्रतिवसन्तेऽपि ज्योतिष्टोमकरो महान् ।
वीर इत्युच्यते सद्भिरविच्छिन्नोऽग्निहोत्र्ययम् ।। नित्यान्नदानपरतः शेषमोजी जितेन्द्रियः । लौकिक वैदिकं चैव सर्वज्ञानमवाप्य यः॥
आश्रमस्वो ऋषी नित्यमृषिकल्प इतीरितः । ऊर्ध्वरेतास्तपस्यग्रो नियताशी महामनाः ।। शापानुप्रयोः शक्तः सत्यसन्धो मुनिस्मृतः । निवृत्तसर्वतत्त्वज्ञो कामक्रोधविवर्जितः ।।
ध्यानस्थो निष्क्रियो दान्तः तुल्यमृत्काञ्चनोऽपरः ।
महामुनिरिति प्रोक्तो दुर्लभो ब्राह्मणोत्तमः ।। प्रतिग्रहासमर्थोऽपि कृत्वा विप्रः प्रतिग्रहम् । रत्वा परोपकाराय तद्धनं निस्पृहः स्वयम् ॥
तारयिष्यति दातारमात्मानं च स्वतेजसा । असतस्तु समादाय साधुभ्यो यः प्रयच्छति ।। धनस्वामिनमात्मानं सन्तारयति दुष्कृतात् ।
पात्रस्य हि विशेषेण दानस्यापि फलोत्तरम् ।। समद्विगुणसाहस्रमनन्तं च यथाक्रमम् । दाने फलविशेषः स्याद्धिंसायामेवमेव हि ॥ सममब्राह्मणे दानं द्विगुणं ब्राह्मणव वे । श्रोत्रिये शतसाहस्रमनन्तं वेदपारगे। सहस्रगुणमाचार्ये भ्रणे शतसहस्रकम् । वीरे तच्छतकं प्रोक्त यहत्तं तन्नसंशयः ।।