________________
१४२
मार्कण्डेयस्मृतिः
स्यक्तकर्मब्राह्मणनिन्दा अधीतसर्वशास्रोऽपि कालसन्ध्यापराङ्मुखः । त्यक्तवेदो जडमतिः शूद्रादल्पतरःस्मृतः॥
त्यक्त्वा देवं ब्रह्मनामा बुद्ध वच्छात्रपाठकः । सन्ध्याकालकृतानेक वाङ्मुखो मन्त्रवर्जितः ॥ शूद्रादप्यतितुच्छोऽयं तन्मुखं नावलोकयेत् ।
दूष्यःस्यावृत्तदोषेण न पूज्योऽयं तु पामरः ।। सत्यं त(१द)मस्तपोदानं अहिंसेन्द्रियनिग्रहः । वेदोदितानि कर्माणि दृश्यन्ते यत्र बाडवः श्रुतं प्रज्ञानुगं यस्य प्रज्ञा चैव शुभानुगा। असंभिन्नात्ममर्यादस्स उ ब्राह्मण उच्यते ॥ यं न सन्तं न चासन्तं नाश्रुतं न बहुश्रुतम् । न सुवृत्तं न दुर्वृत्तं वेद कश्चित्स तु द्विजः।।
सत्यं दानं दमश्शीलं आनृशंस्यं दया घृणा ।
दृश्यन्ते यत्र लोकेऽस्मिन् प्रोचुर्ब्राह्मणमुत्तमम् ।। विद्या तपश्च योगश्च ब्राह्मणस्यैव लक्षणम् । विद्यातपोविरहितो नाम ब्राह्मण उच्यते ॥
त्रिशुक्रकृशवृत्तिश्च घृणालुः सकलेन्द्रियः। विमुक्तो योनिदुष्टे(दोष)भ्यः पात्रत्वं प्रतिपद्यते ॥ स्वाध्यायवन्तो ये विप्राः विद्यावन्तो जितेन्द्रियाः ।
सत्यसंयमसंयुक्ताः सर्वकर्मसु कीर्तिताः ।। श्रोत्रियाय कुलीनाय विनीताय तपस्विने । व्रतस्थाय दरिद्राय प्रदेयं शक्तिपूर्वतः ।। श्रोत्रियस्त्वयमेवोक्तो मुख्यतः शास्त्रजालकैः । वेदैकशाखाध्यायी यः सर्वकर्मसु पावनः।। ओंकारपूर्विकास्तिस्रः सावित्री यश्च विन्दति । चरितब्रह्मचर्यश्च स वै श्रोत्रिय उच्यते॥
शीलं संवसता ज्ञात्वा शौचं सव्यवहारतः ।
प्रज्ञानं कथनाजज्ञात्वा त्रिभिः पात्रपरीक्षणम् ॥ कुर्यादेवान्यथा विद्यात्प्रश्नतो न कदाचन । न ब्राह्मणं परीक्षेत कदाचिदपि विद्यया ।। वेदेन सर्वथा नैव महादानेषु केवलम् । विद्यामात्रां विद्यमानां तत्स्वरूपं च तत्परम् ।।