________________
पात्रापात्रनिरूपणम्
१४१ दानपात्रं विप्र एव सर्वेषामपि सन्ततम्। पठमात् त्रायते यस्मात्पात्रमित्युच्यतेऽखिलैः॥
ब्राह्मणेष्वचितेष्वेषु सर्वे वेदाः सुरादयः । अर्चिताः प्रभवन्त्येव भत्सिता निम्दिता अपि । धिक्कृताश्चा कृताश्चापि तथैव स्युश्च तेऽखिलाः ।
काणाः कुब्जाश्च मन्दाश्च दरिद्रा व्याधितास्तथा ।। एवंरूपा बहुविधा अपि पूज्या निरन्तरम् । ब्रह्मवीर्यसमुत्पन्नाः वन्द्या एव भवन्ति वै॥ नितरां क्षत्रियादीनां मौञ्जीविरहिता अपि । तावत्कालं ततो भूयः केवलं यद्यसंस्कृताः पतिता इति विशेयास्तेन वन्द्याः कदाचन ! ब्राह्मण्यदूषकं नित्यं मद्यमेकं तु तत्क्षणात् ॥ तत्पानदुष्टा यदि वै पुनश्चित्तविवर्जिताः । भवन्त्येव न सन्देहः सन्देही पापभाग्भवेत् तएस्तप्त्वासृजद् ब्रह्मा ब्राह्मणान् वेदगुप्तये । तृप्तये पितृदेवानां यहधर्मवपःश्रियाम् ॥ निदानाय च गुर्वर्थमाचार्यत्वाय केवलम् । ऋत्विक्त्वहेतवें चापि शिवविष्णुप्रचोदितः
नास्ति विप्रसमो देवी नास्तिविप्रसमो गुरुः। नास्ति विप्रसमों बन्धुनास्ति विप्रसमं तपः॥ नास्ति विप्रसमो मन्त्री नास्ति विप्रसमो जपः । नास्ति विप्रसमं तीथं पावकं तारकं तराम् ।। न विप्रसममस्तीह वर्णिनां सन्ततं महत् ।
न जातिर्न कुलं शौचं न स्वाध्यायः श्रुतं शमः। कारणानि द्विजत्वस्य जननं ब्रह्मवीर्यतः। विवाहितायां धर्मेण परमेकं सनातनम् ।। पश्चाद्वृत्तं प्रशंसन्ति ब्राह्मणस्य सुपूर्तये । वृत्तमेव ब्राह्मणस्य तन्महत्त्वैककारकम् ॥ वृत्तिहीने तु तद्भूयः सति सर्व निरर्थकम् । किं कुलं वृत्तिहीनस्य करिष्यति दुरात्मनः क्रिमयः किं न जायन्ते कुसुमेषु सुगन्धिषु । बहुना किमधीतेन कुशास्त्रेण दुरात्मनः ।।
तेनाधीतं श्रुतं चापि यः क्रियामधितिष्ठति ।
-
-
-
-