________________
१४०
मार्कण्डेयस्मृतिः हिरण्यं कथितं सद्भिः तथा धान्यादिकं परम ।
विप्रभुक्तिर्न चेद्भूयो गायत्रीजप एव वा ॥ दशसाहस्रमित्याह संहितापठनं तु वा । तिलहोमोऽथवा पूर्व संख्यायाब्धिगता ( ? )। अवगाहः शिष्टगेह भोजनं चेति केवलम् । उक्ता हि प्रतिनिधयः अध्वर्योद्गातृहोतृषु ।। दुर्लभेषु तथान्येषु ब्रह्मादिषु महत्विषु । न चलत्येव कर्मैतद्वदिकं स्मार्तमेव वा ।।
तस्मात्तु ब्राह्मणो मुख्यः कर्ममात्रस्य सन्ततम् ।
अग्निसाध्यं मन्त्रसाध्यं क्रियासाध्यं तु यत्कृतम् ।। तन्मात्रस्य ब्राह्मणोऽयं मुखमांवश्यकं स्मृतः । श्रुतीनामाकरा य ते रत्नानामिव सागराः
ब्राह्मणप्रशंसा विप्रा विप्रमुखेनैव पूजनीयाः प्रयत्नतः । यत्र वेदविदो विप्राः न प्राश्नन्त्यमृतं हविः ।। न तत्र देवतास्तस्य हविरश्नन्ति कहिचित् । विप्रोच्यते स्वर्गो नूनं प्रायं प्रापक उच्यते स्वर्गप्रापक इत्येतदातृन विप्रोऽयमीरितः। अपि नारायणोऽनन्तो भगवान् वृषभध्वजः
पितामहो लोककर्ता साक्षात्स्कन्दोऽनिलः शिखी ।
तद्दानं नाभिनन्दन्ति यत्र विप्रा न पूजिताः ।। वसन्ति ब्राह्मणे नित्यं वेदाक्षरनिकेतने । देवाः सर्वे हरिः श्रीमान् वेदविद्यो जगद्गुरुः वेदवन्द्यो वेदरूपो भूतेशो भगवान् भवः । इन्द्रादयो लोकपाला वसवोऽष्टाश्विनावपि
रुद्रा एकादश तथा आदित्या निखिला अपि ।
असोमपाः सोमपाश्च पितरश्चापि तेऽखिलाः॥ विप्ररूपेण सततं तिष्ठन्त्येव महेच्छया । तस्मात्तस्मिन् पूजिते तु पूजिताः सर्व एव ते॥ भवन्त्येव न सन्देहस्तस्माद्व दविदुत्तमः । सर्वदेवालयप्रोक्तः सर्वतीर्थालयस्तथा ।
तस्य प्रसादात्सुलभो ह्यायुर्धर्मस्सुखण्डनम् ।
__ भगोभाग्यं धृतिर्नीतिः हीःश्रीपुष्टिधु तिर्मतिः॥ वृत्तिर्दया शुचिर्लज्जा तुष्टिः श्रद्धारमा परा । श्रीर्यशः स्वर्गमुक्ती च तादृशं को न पूजयेत्॥