________________
१३८
मार्कण्डेयस्मृतिः चौलसीमन्तयोः पश्चान्मासमात्रं तथा स्मृतम् ।
स्वपुत्रपौत्रादिकेऽपि नियमोऽयं सनातनः॥ एवमेव प्रकथितः तस्माछाद्धं प्रयत्नतः। समागतमनुष्ठाय शुभकर्म ततः परम् ।। आरभेदेव मतिमान् तत्पूर्व तन्न चाचरेत् । पूर्व मृताहमालोक्य पित्रोरेव पुरःस्थितम्॥
न कुर्यात् पुत्रयोः कर्म भावुकं तत्कथंचन भ्रातृणां भिन्नभिन्नानां विभक्तानां तथा पुनः॥ तथैव वा विभक्तानां मध्ये कश्चन पुत्रचित् । विद्यमानः स्वपुत्रस्य मौञ्जी वा पाणिपीडने ॥ कतुं समुद्यतोऽतीव पित्रोः श्राद्धमुपस्थितम् ।
मोहात्प्राथमिकं चेत्तु तन्मध्ये तु तथा पुनः॥ तच्छ्राद्धानन्तरं भूयः तद्भद्रं पुनराचरेत् । अतो न भावुकं कर्म श्राद्धात्पूर्व समाचरेत्॥ निवर्त्य पैतृकं श्राद्धं पुत्रयोस्तदनन्तरम् । स्वश्रेयसं प्रकुर्वीत न चेत्पीडाशिवादयः॥
भवेयुरेव नितरां तथा तस्मान्न चाचरेत् ।
विवाहमौज्योः पश्चात्तु पुत्र्याः पुत्रस्य वान्ययोः॥ गेहे प्रतिदिनं भव्यकर्माण्येव क्रमेण वै । शक्त्या प्रकुर्याद्विधिना तत्क्रमश्चापि वर्ण्यते ॥ हारिद्रशम्बर महामह आदौ दिनत्रयम् । बुधवारोत्सवश्रीकः स्थिरवारोत्सवः परः॥
नीराजनोत्सवश्चात्र चित्रान्नोत्सवनामकः । भानुवारे ततः पश्चाच्चान्द्र मोदकसंज्ञिकः ।। क्षीरोत्सवे भौमवारे भक्ष्याख्यो गुरुवारके ॥
विवाहानन्तरोत्सवविशेषाः कल्याणस्याष्टमदिने श्रीमान् लग्नोत्सवाख्यकः ।
नवमे दिवसे पश्चाद् भव्यताम्बूलनामकः ।। गन्धचूर्णोत्सवश्रीकः पश्चात्पुष्पाभिधानकः । द्वादशे दिवसे गाननामाख्यःसुमहोद्भवः ।।