________________
१३६
मार्कण्डेयस्मृतिः
आरोग्यादिदानानि आरोग्यदानं प्रथमं रत्नदानमनन्तरम् । परं भगंधरहरं रत्नदानमनुत्तमम् ।। प्रणरोगहरं रत्नवत्रसंप्रतिपादनम् । गलगण्डहरं रत्नदानं तदनुकीर्तितम् ॥ ततोऽलंकारदानं तु वस्त्रदानमनन्तरम् । पुष्पदानं धूपदानं दीपदानं समन्त्रतः॥ देवतादीपदानं च दिग्दीपप्रतिपादनम् । गोदीपदानमपरं कार्तिक्यां दीपदानकम् ।। दद्यादीपप्रदानं च पिष्टदीपार्पणं ततः । गीतिदानं छत्रदानमुपानहानमेव च ॥ रत्नपूरितहेमादिपात्रदानमनुत्तमम् । ताम्रपानप्रदानं च रुक्मपात्रार्पणं ततः।। वस्त्रदानं देवताभ्यो वस्त्रदानमथापरम् । शोभनवस्त्रदानं च छु ष्णीषप्रतिपादनम् ॥ तथोर्णापट्टदानं च शय्यादानं ततः परम् । शिवशय्याप्रदानं च विष्णुशय्याप्रदापनम्॥ गौरीशय्याप्रदानं च दुर्गाशय्यासमर्पणम् ! सूर्यशय्याप्रदानं च शासनप्रतिपादनम् ।। तथास्तरणदानं च कटदानमनुत्तमम् । उपधानप्रदानं तु चर्मादिप्रतिपादनम् ।। ततो दर्पणदानं च शिवविष्ण्वोस्तथापरम् । लीलानिदानं कथितं दानं तु व्यजनस्य च तथा चामरदानं च गन्धदानं महोत्तमम् । ताम्बूलदानं स्वर्णादिपात्रदानं महाफलम् ।। भाण्डवर्धनिकादानं स्थालीदानमनुत्तमम् । प्रोक्तमन्विष्टकादानं अभयप्रतिपादनम् ।। विमोचनं विरुद्धानां पक्षिणां तदनन्तरम् । सर्पमोक्षणमाख्यातं पान्तशुश्रूषणं परम् ॥ अभ्यङ्गदानं पातानां अभ्यङ्गप्रतिपादनम् । अभ्यङ्गकरणं चापि तस्मै तैलसर्पणम् ।। यज्ञोपवीतदानं च शिरोरोगहरं तथा । यज्ञोपवीतमपरं गर्भस्रावहरं स्मृतम् ।। दानं यज्ञोपवीतस्य यष्टिकादीपमर्पणम् । यत्यादीनां तु वपनं सपर्याकरणं गवाम् ॥ अन्नदानं भक्ष्यदानं धान्यदानं महाफलम् । अथोदकप्रदानं च करकादिप्रदापनम् ।। तदा धर्मघटस्यापि यतीनां घटदानकम् । गृहिभ्यः कुम्भदानं च दानमुत्तममुच्यते ॥ अश्वत्थजलदानं तु सेचनं पिप्पलस्य च । मधूकतुलसीबिल्वधात्रीवसनभूरुहाम् ।। सेचनं पालनं चापि स्थापनं दर्भकाशयोः। परोपकृतिकार्याय चेतसैव समर्पणम् ।। तथा गलन्तिकादानं मणिकादानमेव च । प्रपादानं जलाशयनिर्माणं कूपपाथसाम् ।।