SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ १३४ माकण्डेयस्मृतिः नभस्ये फाणितं दद्याघृतमाश्वयुजे तथा । दीपं तु कार्तिके मार्गशीर्षे लवणमीरितम् ।। पौषे सुवर्णमेतानि देयान्येवं महात्मभिः । उत्तरे त्वयने देयं तिलधेनुद्वयं परम् ॥ वनदानं विशेषेण तिलानड्वाहमेव च । सर्पिर्दानं प्रशंसन्ति दक्षिणे त्वयने तथा ॥ पुष्पदानं सिते पक्षे कृष्णपक्षे जलं शिवम् । देयमेवेति सततं पुनर्नित्यं च तत्स्मृतम् ॥ स्नानानुलेपनादीनां वसन्ते दानमिष्यते । पानकानां तथा ग्रीष्मे वर्षासु छत्रमुत्तमम् ॥ शरचन्नप्रदानं च वस्त्राणामपि हैमके । बहिर्दानं तु शिशिरे कृत्वा शत्रुजयं लभेत् ॥ संवत्सरे तिलान्दद्याद्यवांस्तु परिवत्सरे। इडापूर्वं च वस्त्राणि धान्यं चाप्यनुवत्सरे ॥ इद्वत्सरे तु रजतं क्रमाद्देयानि शक्तितः । कौले दानानि तान्येतानिति शास्त्रेषु नैकपा । गीयन्ते धर्मसारौः श्रीमतां संपदेऽनिशम् । सर्वाण्यपि च दानानि भागिनामेव केवलम् ॥ नृपतीनां विशेषेण नित्यत्वेनैव सन्ततम् । चोदितानि किलान्येषां दरिद्राणां न किश्चन ॥ एतत्कन्यामहादानं न तथा किल चोदितम् । स्वकीयविभवैकानुसारेणैव सुचेतसा ॥ कर्तव्यत्वेन विहितं पितृणां स्वस्य केवलम् । उत्तारणाय सर्वेषां अवशालघुवर्मना । एकोत्तरशतानां च ब्रह्मलोकाप्तये हि तत् । तस्मिन् कन्यामहादाने पुरोक्तान्यखिलान्यपि ॥ पुनस्तथाप्यनुक्तानि वक्ष्यमाणानि यानि वा। तानि सर्वाणि कन्याया दानाङ्गत्वेन यो महः ॥ तत्पश्चदिनसाध्यो वै विहितक्लप्त उत्तमः । तत्कोणावयवानेहविहितानां तदा तदा ॥ तत्तक्रियाविशेषाणां प्रचालनमहत्वतः । अवशात्समवाप्नोति कन्यादाता क्षणाद्ध वम्
SR No.032672
Book TitleSmruti Sandarbh Part 06
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages426
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy