________________
नानादानफलानि
१३१ वैश्वदेवेऽन्नपानस्य श्रवणे क्सनस्य च । धान्यस्य वासवे दानं वारुणे चौषधस्य च ॥ अने पुराणबीजानां सस्यानां तदनन्तरम् । गोरसानां तथा पोष्णे स्नानानामथचाश्विमे तिलानां च महादानं भरणीषु प्रशस्यते । एतादृशानां दानानां शौनकेन महात्मना । प्रोक्तानां क्षणमात्रेण लभते बन्धुपूजया। कन्यकायाः पिता नूनं स्वद्रव्यत्यागमूलतः॥ कृतया चेन्मुदा नूनं विशेषेण फलं लभेत् । चेतसा दूयमानेन कृतया चापि केवलम् ।।
फलं तु लब्धं दुःखात्तु यथा स्यात्तु मुदा तदा । दुःखितो न भवेदेव तस्मिन् काले ततः परम् ।। द्रव्याधिक्यभिया चिन्तां न कुर्यादेव सर्वथा ।
सुमुख्येव भवेन्नूनं तेनासौ सुमहत्फलम् ॥ प्राप्नोति कन्यकातातो वरस्यापि पिता तथा । वसूनामवशाइन्धुदानमानादिनातराम् दुर्मना न भवेदेव वसूनामधिकव्ययात् । अवशादागतात्काले तस्मिन् भव्ये तथाविधे॥
डो(दो)लोत्सवताम्बूलदानफलम् योगदानानि डो(दो)लोत्सवे दम्पतीनां ताम्बूलानां प्रदानतः । महाविष्कम्भयोगादिसर्वदानफलं लभेत् ।। तहानशास्त्रं वक्ष्यामि भवतां विशदाय हि । विष्कम्भे धान्यदानं तु प्रशस्तं श्रीमतां सदा ॥ कर्तव्यत्वेन विहितं प्रीतौ दानं तथान्धसः ।
घृतमायुष्मतिप्रोक्त सौभाग्ये कौंकुमं स्मृतम् ।। शोभने यवदानं तु पतिगण्डे तथाम्बरम् । सुकर्मणि गुडान्नं तु रूप्यदानं धृतौस्मृतम् ।। सुवर्णशूलं शूले तु गण्डे मण्डनकं तथा । वृद्धियोगे धेनुदानं रत्नदानं ध्र वे तथा । व्याघाते पाणितं प्रोक्तं गुडदानं तु हर्षणे । वज्रयोगे वनदानं सिद्ध सैद्धार्थमेव च ।। काञ्चनं तु व्यतीपाते तिलदानं वरीयसि । परिघे चातपात्रं तु जलदानं शिवाह्वये ।।
सिद्ध सिद्धान्नदानं तु साध्ये चाभरणं स्मृतम् । शुभे छ प्रदेयं स्याच्छुक्ले दानमुपानहाम् ।।