SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ सम्पूर्णदानेषुकन्यादानस्यप्राशस्त्यवर्णनम् १२५ कालपूरुषदानं च दानं प्रतिकृतस्तथा । पाद्यपूरुषदानं च कालचक्रप्रदानकम् ॥ यमदानं त्रिपुरुषदानं तद्वत्प्रकीर्तितम् । उदकुम्भप्रदानं च चन्द्रादित्यप्रदापनम् ॥ * ब्रह्मविष्ण्वीशदानं च तथायुष्करनामकम् । दानं त्रैमूर्तमाख्यातं चातुर्मूर्तमतःपरम् ॥ पाञ्चमूर्तमतः प्रोक्त दानं सर्वाघनाशनम् । दिग्दानं पञ्चदैवत्यं लोकपालाष्टकं तथा ॥ रुद्राष्टकमितिख्यातं गृहदानमनुत्तमम् । प्रोक्त सांपत्करं दानं सर्वदेवाभिपूजितम् ॥ पिशाचतारदानं तु दानं वैश्वानरं तथा। साध्यदानं ततो द्वादशादित्यप्रतिपादनम् ।। पानं देवगणेशस्य निग्राभप्रतिपादनम् । महागणेशदानं च लक्ष्मीदानमनुत्तमम् ॥ थैव च मरुहानं महापापप्रणाशनम् । तत्परं भुवनानां तु प्रतिष्ठा महती परा ॥ बाल्पदानं पिष्ठरूपप्रदानं सुमहत्फलम् । इत्येवं देवतादानक्रमस्य सुमहत्फलम् ।। कन्याप्रदाता लभते सुमहाभूषणोत्सवे । तद्रात्रौ सुमहाभव्यविशेषे मंगलाकरे ॥ गौरी समुद्दिश्येन्द्राणी कृतनाख्य(ट्य) मुहूर्तके । देवतामूर्तिदानानि तत्क्षणाल्लभतेऽखिलम् ॥ नस्मात्कन्यादानसमं दानमन्यन्न विद्यते । तस्मिन्नेव महादाने सत्कर्ता सर्वदानजम् ॥ फलं विन्दति तत्कालविशेषेषु ततः पुनः॥ गन्धर्वपूजासमयलन्धफलकदानानि प्रतिपदादितिथिदानानि गन्धर्वपूजासमये यस्य यस्य फलं महत् । प्राप्नोति कन्यकातातस्तानि दानान्यपि क्रमात् ॥ निरूप्यन्ने प्रसङ्ग ने यूयं शृणुत वै पुनः । तत्तत्कालविशेषेषु कर्तव्यान्येव पेशलैः ।। नित्यकाम्यनिमित्तार्थकारणेनेशतुष्टये । तानि तानि तु दानानि श्रीमद्भिः शक्तिसंभवे ।। कार्याणि किल तिथिषु प्रतिपन्मुखतः क्रमात् । प्रथमायां तु पुष्पाणि द्वितीयायां घृतं तथा ॥ तृतीयायां हरिद्रायाश्चतुर्थ्यां रजतस्य च । पञ्चम्यां तु पलान्येव षष्ठ्यां पानीयपात्रके ।।
SR No.032672
Book TitleSmruti Sandarbh Part 06
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages426
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy