SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ १२४ मार्कण्डेयस्मृतिः ततस्तं योजयेत्स्वस्य कार्याय पशुहेतवे। अवकीस्विकृतस्य दुष्कृतस्य निवृत्तये ॥ कथं विप्रसकाशात्तु स्वीकार्यों गार्दभः पशुः । क्रयेणेति महत्यर्थे संशये तन्निरूपणम् ॥ प्रसंगेन प्रकथितं तस्मिन् काले तु तान् शुभान् ॥ मन्त्राक्षतधारणफलम् विवाहचतुर्थदिनकर्तव्यम् देवतादानानि मन्त्राभिमन्त्रितान् दिव्यान् तत्रत्यैर खिलैर्द्विजैः । मन्त्रान्तदत्तासत्यन्तपावनान् (?) शुभहेतकान् ॥ अक्षतानतिसर्वस्वदायकानतिदुर्लभान् । ये वा गृहन्ति शिरसा ते भावुकनिकेतनाः॥ ततश्चतुर्थदिवसदीक्षावनपरिप्लवात् । निमित्ताद्रजकाद्भूताद् यद्दानं वस्त्रभक्ष्ययोः॥ कन्यकाभूषणकृतिसमये दीपशोभिते । वधूवराभ्यां रचितत्तहानैरयं तदा ॥ कन्यापिता वै प्राप्नोति देवतादानजालकम् । निखिलं तन्मुहूर्तेन नात्रकार्या विचारणा तद्देवतादानकल्पस्वरूपं तत्प्रयोजनम् । निखिलेनैव नितरां सम्यग् वक्ष्ये प्रसङ्गतः॥ आदौ वैनायकं दानं गुल्मरोगघ्नमेककम्। तथापस्माररोगन अन्यद्वैनायकं पुनः॥ प्लीहरोगहरं चान्यद्व नायकमनुत्तमम् । वाग्जाड्यत्वहरं चान्यत्सारस्वतमथापरम् ॥ मूकत्वनाशकं तद्वद्दानं सारस्वतं तथा । आन्त्रवृद्धिप्रशमनं नारायणमथापरम् ॥ प्रदानं वातरोगघ्नं लक्ष्मीनारायणस्य च । ततो गारुडदानं च कामलारोगनाशनम् ।। गारुडं दानमपरमक्षिरोगनिवर्तकम् । अन्यद्गारुडमाख्यातं वाराहं दानमुत्तमम् ॥ देवतामूर्तिदानम् नारसिंहं दगुरोगहरमौमामहेश्वरम्। क्षयरोगघ्नं रुद्रमूर्तेरनन्तरम् ॥ दक्षिणामूर्तिदानं च प्रदान परशोः स्मृतम् । शूलदानं तु पापघ्नं शूलरोगनशूलकम् ॥ दानं भ्रमणरोगघ्नं सूर्यमूर्तेरनन्तरम् । अन्यत्कुष्ठनमार्तण्डप्रतिमादानमेव च ॥ अथातिसाररोगन वह्निदानमनुत्तमम् । अश्वि(श्व)दानं तु दारिद्य हरं कौवेरमीरितम् ततोदरव्याधिहरं मकरप्रतिपादनम् । स्मृतं विसर्पिरोगन नागदानमनुत्तमम् ।। ततस्तु वाग्जाड्यहरं घण्टादानमनुत्तरम् । श्वासकासहरं चोक्त प्रदानं द्विजपाशयोः॥
SR No.032672
Book TitleSmruti Sandarbh Part 06
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages426
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy