________________
१२१
सुवर्णादिनानादानानांफलवर्णनम् कन्याप्रदाता तेषां च षोडशानां पुनः क्षणात्। तादृशे चलति श्रीके तस्मिन् चलति भव्यके । अवान्तरमहादानप्रभेदानां च केवलम् ।
फलानि सर्वाण्याप्नोति नात्रकार्या विचारणा ॥ तेषां क्रमेण वक्ष्यामि दानक्रममघापहम् । सुवर्णदानं प्रथम प्रवरं कथित बुधैः ।। तत्तु षोडशदानस्तैस्तुल्यं स्वणप्रदानकम् । ततः सुवर्ण म्वर्णस्य दानं पापहरं स्मृतम् ॥ तथा सुवर्णद्वितयदानमक्षयदा नकम् । दानं शतसुवर्णस्य फलादिप्रतिपादनम् ॥ त्रिकालसौवर्णदानं तदनन्तरमीरितम् । दानं नित्यसुवर्णस्य हेमाख्यप्रतिपादनम् ॥ दानं शिवसुवर्णस्य लिंगस्वर्णसमर्पणम् । शतमानसुवर्णस्य दानं हत्याहरं स्मृतम् ॥ पापरोगहरं तद्वद्दानं शतसुवर्णकम् । दानं भद्रनिधेश्चैव तथानन्दनिधेः स्मृतम् ॥ रूप्यदानं तु कल्पोक्तमश्वदानमनुत्तमम् । श्वेताश्वदानं सूर्याश्वदानं चापि निरूपितम्॥ बडबा(वा)याः प्रदानं च तिलदानमतः परम् । तिलकृष्णाजिनस्यापि दानं तिलमृगस्य च तिलपात्रप्रदानं च महातिलसमाह्वयम् । तिलराशिप्रदानं च दानं त्रैपद्ममीरितम् ॥ तिलालिंगनदानं च पापघ्नं परिकीर्तितम् । तिलपीठं तिलादश तिलकुम्भसमर्पणम् ॥ तिलालंकारदानं च पापघ्नं परिकीर्तितम् । तथा रुद्र कादशकतिलदानमुदीरितम् ॥ तथैव तिलगर्भस्य तिलपद्मस्य कीर्तितम् । दानं तु क्षयरोगघ्नं तिलपद्मस्य चोत्तमम् ॥ शूलरोगहरं तद्वत्तिलपद्म प्रकीर्तितम् । मूकत्वनाशकं चान्यत्तिलपद्मप्रकीर्तितम् ।। गजदानं च रोगघ्नं गजदानं तथापरम् । तिलपिष्टं गजस्यापि दानं तद्वत्प्रकीर्तितम् ॥ शिवाय विष्णवेऽर्काय गजस्य प्रतिपादनम् । मुखरोगहरं चान्यद्गजदानं प्रकीर्तितम् त्रणनगजदानं च दासीदानमनुत्तमम् । दासदानं रथस्यापि प्रदानं शकटस्य च ॥
गंत्रीदानं यानदानं शिबिकादानमेव च ।
महीदानं तथा प्रोक्त गृहदानं तथा स्मृतम् ।। सूर्याय गृहदानं च चत्वरप्रतिपादनम् । गवां गृहप्रदानं च आश्रयप्रतिपादनम् ।। मठमण्ट(ण्ड)पयोर्दानं दानं शिवमठस्य च । प्रतिश्रयप्रदानं च कन्यामूल्यप्रदापनम् ॥