________________
११६
कन्यापितुर्दानमुदिश्यतमामहिमहभवर्णनम् क्रियाभिर्दक्षिणादीनां अष्टलोहतुलाफलम् । तदङ्गविप्रबन्ध्वौघभोजनादिककर्मणः॥ महाकांस्यतुलाजन्यं फलं श्रीमत्प्रपद्यते । तदीयदक्षिणादानैः महत्रपुतुलाफलम् ॥ जायते किल तत्कर्तुः क्षणेनैवाल्पयत्नतः। रथोत्तम्भनकार्यादिजालके कन्यकाकृते ॥ कृते वरेण तत्कन्याप्रदातुस्तत्क्षणेन वै । सद्यः (१) सतुलायाश्च ताम्रायाःस्वर्णरौप्ययोः॥ तुलयोस्सुमहद्भव्यमन्त्रयन्त्रादिलब्धयोः । पैत्तल्याश्च तुलायास्तत्पलमत्यन्तदुर्लभम् ॥ अश्नुते कन्यकातातो मन्दिरादिक्रियादिषु । प्रधानहोममात्रेण कृतेन तदनन्तरम् ॥ पुत्रोपवेशनफलदापनेन च मन्त्रतः । फलं फलतुलायास्तत् आग्नेयाख्यस्य कर्मणः ॥ वरकृत्या गृहपतिस्तुलयोर्गुडभस्मनोः। तथा पूगतुलायाश्च फलं पौष्प्याः प्रपद्यते ॥ तथर्षिदर्शनात्पश्चादरुन्धत्याः समर्चनात् । घृतक्षीराख्यतुलयोर्दधिपष्टिकयोरपि॥ तथोदनतुलायाश्च यत्फलं शास्त्रचोदितम् । तत्फलं तत्क्षणादेव लभते कन्यकापिता ॥ पश्चादौपासनाख्यस्य कर्मणः करणेन वै । तैलमाक्षिकवस्त्राणां लवणस्य तथा पुनः॥ शार्करायाश्चन्दनस्य तुलायाः कुंकुमस्य च । गोरत्नतिलवस्त्राणां तुलानां यत्फलं पुनः॥ तत्सर्व समवाप्नोति तद्गन्धर्वप्रतिष्ठया । छत्रपत्रककार्पासरजश्शाककटाद्धसाम् ॥ तुलानां फलमाप्नोति गौरीन्द्राणीप्रपूजया । वधूवराभ्यां कृतया यजमानोऽयमाशु तत् एवं तुलाप्रभेदानां सर्वेषां महतामपि । मुहूर्तानन्तरं तस्य वरस्य क्रियया तया॥ . गौरी पूजां तया सर्व यत्फलं वेदसंमितम् । अमोघमप्राप्यमतियत्नद्रव्यक्रियादिभिः॥ सम्प्राप्यं परमं दिव्यं प्राप्नोत्येवाविलम्बितम् । लघुतः कन्यकादाता पुनश्च तदनन्तरम् औपासनारम्भदिनपरेऽह्नथपि तथैव वै । पराह्वानाहणमहद्बन्धु(मित्र) ब्राह्मणपूजया ॥
स्वशक्त्त्यनुगुणश्रद्धाभक्तिभ्यां कृतया तया । पञ्चलाङ्गलदानाख्यफलं यत्तच्च केवलम् ।। हलपङ्क्तिश्च सुमहद्य यः कथितं तराम् ।
धाराख्यस्यास्य यद्भूयः फलमत्यन्तदुस्तरम् ।। जम्बूद्वीपफलं चापि सप्तद्वीपफलं तथा । पृथिवीपद्मदानस्य यदत्यन्तं सुपावनम् ॥
महछ यः प्रकथितं तदवाप्नोत्यसंशयम् ॥