________________
११८
मार्कण्डेयस्मृतिः त्रिंशांशात्तत्परं दिव्ये पुष्करे चेति सूरिभिः ।
ज्योतिषिकैनिश्चितेऽथ तहाताऽसौ विचक्षणः॥ हिरण्यकामधेन्वाख्यदानस्य लभते फलम् । नान्दीपूर्वदिने यत्तु वराह्वानाख्यकर्मणः ॥ करदीपौधशतकमहामंगलशोभिनः । विचित्रनृत्तवाद्यौघवेदघोषानुरञ्जनैः॥ पतिव्रतामहागानसुन्दरस्य विशेषतः । कृतिमात्रेण लभते हिरण्याश्वस्य यत्फलम् ॥ तदवाप्नोति विबुधो तस्मिन्नेव क्षणे पुनः । वरपूजा बन्धुपूजा विप्रपूजादिसत्क्रियाः ।। याः काश्चित्सुमहादिव्यताम्बूलादिसमर्पणैः । तासां करणमात्रेण हिरणयाश्वरथस्य वै॥
दानस्य लभते श्रेयस्तस्मिन् काले विशेषतः।
विप्राणां दक्षिणादानैः फलदानादिना तथा । तद्वाक्यनिश्चयाच्चापि हेमहस्तिरथस्य वै । यत्फलं कथितं सद्भिस्तदवाप्नोति पुष्कलम्॥ ततो वरस्य शरणनिर्देशनसुदानतः । पञ्चलाङ्गलकस्यास्य सुमहत्फलमश्नुते ॥ ततःपरेऽहि नान्द्याख्यकर्मणः करणात्परम् । महत्स्वर्गधरादानफलं नूनं स विन्दति ॥ स्नानात्परं वरस्यायं राति संभाषणादथ । यथार्थगमने काले वरसंभावनादिना ॥ तदीयाह्वानमाण तत्फलादि विशेषतः । विश्वचक्राख्यदानस्य फलं विन्दति तत्क्षणात् कन्यादानं करिष्येति पल्या साकं विचक्षणः । ब्राह्मणानां महाबाते करणादेव तत्फलम्
दिव्यकल्पलताख्यस्य लभते कन्यकापिता।
वरालंकारादिफलानि ततो वरालंकरणात् कन्यालंकरणादपि । हिरण्योदकदानैश्च सप्तसागरदानतः।। यदुच्यते फलं तत्तु समवाप्नोत्यनश्वरम् । मधुपर्कप्रदानेन वरस्यादौ महानयम् ॥ रत्नधेनोः परं नूनं फलं तत्प्रतिपद्यते। तदुपाध्यायबन्धूनां मधुपकक्रियादिभिः ॥ कन्याप्रदानतत्पाणिग्रहतद्धोमकर्मभिः । तन्महाभूतखण्डस्य फलं सायं समश्नुते॥ तस्मात्कन्यादानसमं नन्यादानं हि विद्यते । तदुपर्यपि भूयश्च बन्धूनां पूजया तदा ।। कर्पूराख्यतुलायास्तत्फलं प्राहुर्मनीषिणः । तदङ्गविप्रपूजाभिस्ताम्बूलादिप्रदापनैः ।।