________________
कन्यादानफलवर्णनम्
११७ पूर्वेषामपरेषां च दशानां वंशजन्मनाम् । पितृणामतिपापानामपि नारकिणां स्वतः॥ एकविंशतिसंख्यानां नरकोत्तारणेन वै । दानोत्तरक्षणेनैव ब्रह्मलोकाप्तिरीरिता ॥ तावदत्र न संदेहो विद्वत्पामरयोरति । सर्वलोकैकविदिता प्रसिद्धिर्महती परा॥
किं चात्र कन्यकादाने महादानानि यानि वा ।
निरूपितान्यद्य मया तानि सर्वाण्यभीक्ष्णशः॥ अवशादेव लभ्यन्ते ब्राह्मणानां विशेषतः । ब्राह्मादिषु विवाहेषु तत्प्रसङ्गान्निरूप्यते ॥
यस्मै कस्मैचिद्विप्राय वतिने कन्यकामिमाम् ।
सत्कृत्य संप्रदास्यामीति चिन्तामात्रतस्तथा । तुलापुरुषदानाख्यफलं यत्तन्महत्परम् । अवशादेव लभते नात्र कार्या विचारणा ॥
स्वयं पल्या भ्रातृभिर्वा बन्धुभिः सखिभिः परैः। आप्तैविप्रैश्च गुरुभिराचार्यैः शिष्यकिकरैः ॥ उदासीनजडैर्वापि समेतः कन्यकामिमाम् ।
अस्मै सत्कृत्य शक्त्याहं दास्यामीति कथं पुनः ।। कुत्र केन कुतश्चेति वाक्प्रचारक्षणात्तदा । हिरण्यगर्भदानाख्य कर्ताऽयं प्रभवेद्ध वम् ॥ न संदेहः प्रकर्तव्यः संदेहास्यादयं क्षणात् । कन्यादृष्येव नितरां एक्माहापुरादिभिः॥ एवमस्मै दीयतेति प्रोक्तिमात्रेण केवलम् । स्वीयबन्ध्विष्टगोष्ठेषु ब्रह्माण्डाख्यस्य तस्य तु॥ तार्तीयीकस्य दानस्य फलमाप्नोत्यनुत्तमम् । परबन्धुज्ञातजनपरिज्ञानाय केवलम् ॥
दास्याम्येनां ध्रुवं तस्मै अमुष्मा अहमित्यथ ।
प्रोक्त्वाशु कल्पवृक्षस्य दानं यत्सुमहच्छिवम् ॥ तदेव लभते दिव्यं फलं नास्त्यत्र संशयः। कन्यादानमुहूर्तस्य निरीक्षणत एव वै॥
गोसहस्रफलं सद्यस्तकर्ता लभते वशात् । तन्मुहूर्ते निश्चिते तु सुलग्ने सुदिने शिवे ॥ तिथौ वारे च नक्षत्रे होरायां तदनन्तरम् । द्रकाणेऽस्मिन्नवांशेऽपि द्वादशांशे ततः पुनः ।।