________________
भूमिदान प्रशंसावर्णनम्
११५ अञ्जनाकरभूदानादश्विलोके महीयते । लवणाकरभूदानात्सोमलोके महीयते ॥ औषधाकरभूदानापितृलोके महीयते । शिखिसस्यप्ररोहां तु भुवं दत्वा नरोत्तमः ॥ साध्यलोकमवाप्नोति नात्र कार्या विचारणा । नानाधान्याकरभुवं दत्वा रौद्र महीयते केदारभूमिदानेन ब्रह्मलोकं समश्नुते । इक्षुभूमि नरो दत्वा सोमलोके महीयते ॥ गुल्मपुष्पलताकीर्णा यो भूमि संप्रयच्छति । विमाने नन्दने सोऽयं क्रीडतेऽप्सरसां गणैः भूमि संपाद्य यः कुर्याद वब्राह्मणसात्कृताम् । स्वर्गलोकमवाप्नोति पश्चाद्भूपपरो भवेत् पक्कसस्यां भुवं दत्वा ब्रह्मलोकमवाप्नुयात् । निवर्तनसहस्राढ्यां भुवं दत्वा नरोत्तमः ।। भूमिमासाद्य कर्मान्ते चक्रवर्ती भवेद्धि सः । गोचर्ममात्रामचलां दत्वा शिवपुरंब जेत्।। भूमि सर्वगुणोपेतां दत्वा पापात्प्रमुच्यते । क्षेत्रमात्रां भुवं दत्वा महापापैः प्रमुच्यते ।। क्ष्मामेकपुरुषाहारपर्याप्तां संप्रदाय वै । दशकल्पान्निवसति स्वर्ग विगतपातकः॥
क्ष्मां दत्वा गृहपर्याप्तां यमलोकं न पश्यति ।
प्रादेशमात्रां क्ष्मां दत्वा मोदते नन्दने वने ॥ . ग्राम वा नगरं वापि निवर्तनशतं तु वा । यः प्रयच्छति विप्राय स सुरैः परिपूज्यते ।। देवताभ्यो महीं दत्वा तत्तल्लोके महीयते । ग्रामं खेटं पुरं क्षेत्रं देवताभ्यः प्रयच्छति ।।
देयभूमिप्रशंसा सप्तजन्मसु धर्मात्मा स भूमेरधिपो भवेत् । शिवाय विष्णवे भूमि सूर्याय च विशेषतः दत्वा त्रिसप्तकुलजैः पितृभिः सह मोदते। ग्रामदानाचक्रवर्ती पुरदानात्तथामरः ।। खेटदानाच्च भूभर्ता भवेदत्र न संशयः । भुवः प्रमाणं ज्ञानाय सुस्पष्टं वक्ष्यतेऽधुना ॥ दशहस्तेन दण्डेन त्रिंशद्दण्डं निवर्तनम् । गवां शतवृषश्चैको यत्र तिष्ठेदयन्त्रितः।। तद्धि गोचर्मगात्रंतु प्राहुर्वेदविदो जनाः । गृहमात्रां भुवं प्राहुभत्रिंशत्पदसंमिताम् ।। यदुत्पन्नामथाश्नाति नरः संवत्सरं समम् । एतदाहारमात्राख्यं भुवो मानं प्रचक्षते ॥ सोत्सेधवप्रप्राकारं सर्वतः खातमावृतम् । योजनार्धार्धविष्कम्भं अष्टभागायतं पुरम् ॥ तदर्धे तु तदा खेटं तदर्थश्चापि खर्पटम् । तथा शूद्रजनप्रायाः सुसमृद्धकृषीवलाः॥