________________
११४
मार्कण्डेयस्मृतिः ततोभयमुखीदानं सर्वदानफलप्रदम् । द्विमुखी कपिलादानं विष्णुसायुज्यकारकम् ।। तथा चैवोभयमुखीदानं सर्वाधनाशनम् । वृषदानं ततः प्रोक्तं सर्वसौख्यविवर्धनम् ॥ बलीवर्दप्रदानं च गोविन्दप्रीतिकारकम् । तथानुडुत्प्रदानाख्यं चक्राद्यवृषार्पणम् ॥ द्रव्यैर्वृषिप्रदानं च दानं स्वर्णवृषस्य च । तथा होमवृषाख्यं च सर्वदानफलप्रदम् ॥ दानं सप्यवृषस्यापि पितृप्रीतिविधायकम् । तथैव कुष्ठरोगनरौप्यर्षभसमर्पणम् ।। एवमेतानि दानानि प्रशस्तफलवन्ति च । कीर्तितानि मया सम्यक् संग्रहेण यथामति ॥
अतःपरं धराभिख्यमतिदानं महोन्नतम् ।
यः प्रयच्छति विप्राय पृथिवीं सस्यशालिनीम् ।। षष्टिवर्षसहस्राणि स स्वर्गे निवसेन्नरः । अतिदानेषु सर्वेषु पृथिवीदानमुत्तमम् ।
अचला अक्षयाभूश्चेद्दोग्ध्री कामाननुत्तमान् ।
दोग्ध्री वासांसि रत्नानि पशुव्रीहियवान् सदा ॥ भूमिदः पुण्यलोकेषु शाश्वतीर्मोदते समाः। यावद्भूमेरायुरिति तावद्भूमिद एधते ॥ अपि पापसमाचारं ब्रह्मघ्नं वा तथानृतम् । पुनाति दत्ता पृथिवी दातारमपि शुश्रुमः॥ अग्निष्टोमप्रभृतिभिरिष्ट्वा क्रतुभिरूर्जितैः । न तत्फलमवाप्नोति भूमिदानाद्यदश्नुते ॥ यथा जनित्री क्षीरेण पुत्रं पुष्णाति सर्वदा। अनुगृह्णाति दातारं तथा सर्वरसैर्मही॥ प्रासादा यत्र सौवर्णवसोर्धाराश्च कामदाः । गन्धर्वाप्सरसो यत्र तत्र गच्छन्ति भूमिदा: यथा चन्द्रमसो वृद्धिरहन्यहनि जायते । भूमिदानफलं तद्वत्सवसस्यैर्विवर्धते ।।
सागराः सरितः शैलास्तीर्थानि विविधानि च । सर्वाणि भूमिदानस्य कला नाहन्ति षोडशीम् । यो ददाति महीं सम्यक् सोऽश्नुते परमा गतिम् । हस्तमात्रा भुवं दत्वा स्वर्गलोके महीयते ॥ गोचर्ममात्रा मां दत्वा वसूना लोकमाप्नुयात् ।
उद्यानभूमिं दत्वा तु गन्धर्वैः सह मोदते ॥ रखाकरभुवं दत्वा शकलोकं प्रपद्यते । धान्याकरी भुवं दत्वा नाकपृष्ठे महीयते ॥