________________
गोवृषभादिदानफलानि
दानफलानि फलं ब्रवीमि सर्वासामिह धेनोः परत्र च । कृष्णां गां ददते ये तु तेन)पश्यन्ति यमं विभुम् ।। श्वेतां वै ददते धेर्नुस पुमान् दिवि मोदते । नीलवर्णा तु गां दद्यात् पितॄन् प्रीणयते सदा ॥ श्वेतवर्णा तु गां दत्वा वंशवृद्धिमवाप्नुयात् ।
श्यामां पीतां तथा दत्वा दुःखनाशं प्रपद्यते ॥ कपिला सर्वपापघ्नी नानावर्णा च मोहदा । समानवत्सां कपिला दत्वा स्वर्गे महीयते रोहिणी तुल्यवत्सां तु सूर्यलोके महीयते । समानवत्सां श्वेता चेदिन्द्रलोके महीयते ॥
तुल्यवत्सां तु शबलां विष्णुलोके महीयते। . इन्द्रलोकमवाप्नोति दत्वा कृष्णां तथाविधाम् ॥ वातरेणुसवर्णा तु तुल्यवत्सां प्रदाय च । वायुलोकमवाप्नोति नात्र कार्या विचारणा।। दत्वा धूम्रो तथा भूतां यमलोके महीयते। अध्ना(न्यां)हेमसवर्णा तुतुल्यवत्सां प्रदाय च वारुणं लोकमाप्नोति पूज्यमानोप्सरोगणैः । धेनुप्रदाय शृङ्गाक्षी साध्यलोके महीयते॥ दत्वा पलाशवर्णा गा पितृलोके महीयते । प्रदाय शितिकण्ठी गां स्थानंश्रेष्ठं प्रपद्यते॥ एतासामपि धेनूनां प्रदाता समवाप्नुयात् । विमानेनार्कवर्णेन दिवं देव इवापरः ।।
तं चारुवेषाः शुश्रोण्यः शतशोऽथ सहस्रशः।
दमयन्ती विमानस्थं गोप्रदानरतं नरम् ॥ अथ नानाप्रकारोक्तगोदानानि ब्रवीमि वै। समानवत्सगोदानं सर्वपापहरं शुभम् ।। कपिलायाः प्रदानं तु सर्वपापहरं शुभम् । सर्वार्थदायकं श्रीकं सप्तजन्माघनाशनम् ।। वृषभैकादशीदानं गोशतं च वृपोत्तरम् । तथा वृषोत्तरशतगोदानं देवसात्कृतम् ।। त्रिरात्रगोप्रदानं च महापातकनाशनम् । गृहणीहरगोदानमसंग्धरहरं (?) परम् ।। दानं वैतरणीधेनोः यमलोकसुखावहम् । वृपैकगीसहस्रस्य दानं साधनाशनम्।।