SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ ११२ मार्कण्डेयस्मृतिः अतिदानधेनुदानानि त्रीण्याहुरतिदानानि धेनुः पृथ्वी सरस्वतीः। नरकादुद्धरन्त्येताः जपजापनदोहनैः॥ यास्तु पापविनाशिन्यः कथ्यन्ते दश धेनवः । तासां स्वरूपं वक्ष्यामि नामानि च विशेषतः॥ दशधेनुदानानि कुम्भाः स्यु व्यगन्धानां इतरासां तु राशयः । प्रथमा गुडधेनुः स्याद्वितीया मधुसंशिका ॥ सप्तमी शर्करा धेनुः दधिधनुस्तथाष्टमी। रसधेनुस्तु नवमी दशमी स्यात्स्वरूपतः ॥ अयने विषुवे पुण्ये व्यतीपातेऽथ वैधृतौ । गुडधेन्वादयो देया उपरागादिपर्वसु॥ सप्तमी लाण धेनुः स्यादष्टमीदाधिका मता। नवमीतेन नवमी गन्धतैलेन चापरा ॥ गन्धैर्वा दशमा धेनुं रत्नैर्वा परिकल्पयेत् । एवं केचिन्महाभागाः वदन्ति परमर्षयः ।। सुवर्णधेनुमप्यत्र केचिदिच्छन्ति मानवाः। तिलचेनुप्रसंगेन सर्वपापहराः शुभाः ।। सप्तत्रीहिधेनवः सप्तत्रीहिमयास्सप्त धेनवः परिकीर्तिताः । ब्रीहिभिश्व यवैश्चैव गोधूमैश्च तिलैस्तथा । मामुद्गश्च कर्तव्याः सप्तमी च प्रियङ्गुभिः । एतासामेव दानानां विधानं तिलधेनुवत्॥ सप्तबीहिमयास्सप्त गा ददातीह मानवः । स याति परमं स्थानं वायुभूतः खमूर्तिमान्।। उपधेनुदानानि अथोपधेनुदानानि वक्ष्ये पुंस्यान्यनुक्रमात् । यासां वै दानमात्रेण सर्वदानफलं लभेत्॥ तास्वादौ लावणी धेनुः परा कापासको मता। तथा फलमयी धेनु स्तत्तत्कपूरनिर्मिता। कस्तूरिका स्मृता तद्वद्धनुर्दिव्या त्वनन्तरा। केचिदत्र महाभागाः विधानान्तरमूचिरे॥ मेहघ्नी स्वर्णधेनुर्वै वर्शोधनः स्वर्णशृङ्गिणी । तथैव वन्ध्यात्वहरास्वर्णधेनुः परा स्मृता ।। प्रस्विन्नपाणित्वहरस्वर्णधेनुस्तथा स्मृता । सुवर्णशृङ्गिणी चापि तत्परं परिकीर्तिता । तद्वत्कनकशृङ्गाख्या धेनुर्देया सुलक्षणा। एतासामुपधेनूनां कथितो दानसंग्रहः ।।
SR No.032672
Book TitleSmruti Sandarbh Part 06
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages426
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy