________________
११०
मार्कण्डेयस्मृतिः
मेरुदानभेदाः मेरोः प्रदानं दशधा कथितं मुनिसत्तमैः। यत्प्रदाता नरो लोकानाप्नोति सुरपूजितान्।। पुराणेषु च वेदेषु यज्ञोष्वायतनेषु च । न तत्फलमधीतेषु कृतेष्विह यदश्नुते ॥ प्रथमो धान्यशैलः स्याद्वितीयो लवणाचलः । गुड़ाचलस्तृतीयस्तु चतुर्थो हेमपर्वतः ।। पश्चमस्तिलशैलः स्यात् षष्ठः कार्यासपर्वतः । सप्तमो धृतशैलः स्याद्रत्नशैलस्तथाष्टमः ॥ राजतो नवगस्तद्वद् दशमः शर्कराचलः । अयने विषुवे चैव व्यतीपाते दिनक्षये ॥ शुक्लपक्षे द्वितीयायां उपरागे शशिक्षये। विवाहोत्सवयोषु द्वादश्यामथवा पुनः॥
शुक्लायां पञ्चदश्यां वा जन्म: वा विशेषतः । तीर्थे वायतने वापि गोष्ठे वा भवनाङ्गणे ।। धान्यशैलादयो देयाः दश चैव विधानतः॥
द्वादशमेरवः अथ द्वादश मेरुणां दानानि कथयामि वै । आद्यो रत्नमयो मेरुः हेममेहरनन्तरः॥
रूप्यमेरुस्तीयः स्यात् भूमेरुस्तु तुरीयकः।।
पञ्चमो हस्तिमेरुः स्यात् षष्ठश्चाश्ममयो गिरिः ॥ गोमेरुः सप्तमः प्रोक्तः वस्त्रमेरुस्थाष्टमः। नवमो घृतमेरुः स्यादशमः खण्डनिर्मितः ।। एकादशो धान्यमेरुः द्वादशस्तिलनिर्मितः । द्वादशैते शिवप्रीत्यै मेरवः परिकीर्तिताः॥
कुलपर्वतदाना(नामा)नि सप्तानां कुलजाताना वक्ष्ये नामान्यनुक्रमात् । देयो हेममयो मेरुः कैलासों राजतोद्भवः कार्यासेन तु हेमाद्रि गुडजो गन्धमादनः । सुचेलस्तु तिलैयः विन्ध्यः शर्करया कृतः लवणेन तथा शृङ्गी यथोक्तविधिना ततः । चतुर्दशानां मेरूणां दानान्यद्यानुकीर्तये ॥
यानि दत्वा तु पुरुषो न भूमौ जायते पुनः॥