SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ १०७ प्रायश्चित्तप्रतिनिधिवर्णनम् सूर्यपूजा तेजोराशि भानुमन्तं भास्कर लोकचक्षुषम् । येऽर्चयन्ति महात्मानः सूर्यलोकं ब्रजन्ति ते ॥ जटाधरा भस्मधराः विष्णुनामधराः पराः। विष्णुगाथारता नित्यं न ते दुर्गतिमाप्नुयुः॥ गायत्रीमात्रसंतुष्टाः सन्ध्योपासनतत्पराः । स्वाचारेण च संयुक्ताःनते दुर्गतिमाप्नुयुः। मन्त्रतन्त्रक्रियाधर्म न नशौच विवर्जिताः । द्विमुख्युदकतत्कर्ममात्राभिनयमात्रतः ॥ सर्वभ्रष्टाश्च विकलाः तदन्त्ये बसतो यथा । कृतार्थाः कृतकृत्याश्च तावन्मात्रेण केवलम्॥ आभासकर्मणोऽत्यन्तं भवेयुर्नात्र संशयः ।। __ प्रायश्चित्तप्रतिनिधिः प्रायश्चित्ते तु संप्राप्ते साक्षात्कृच्छ्राणि कैरपि । नानुष्ठाय च शक्यन्ते तेषां प्रतिनिधित्वतः ॥ गोगोमूल्यादिभिस्तानि तस्मात्कार्याणि चाखिलैः। सेतुगंगास्नानमुखैः दरिद्रस्तानि चाचरेत् । अपि तानि कदाचित्तु स्नानान्यपि विधानतः।। द्रव्येण विप्रमुखतः कर्तव्यानि भवन्त्यपि । द्रव्यदानेन सर्वाणि प्राप्यन्ते निखिलाः क्रियाः ।। तस्माद्व्यं सर्वकार्यमाने ह्यावश्यकं परम् । तस्मिन् सत्येव सततं सिध्यन्त्यखिलसस्क्रियाः। महादानादिकाश्चापि यैः कृतैर्वृषलादिकाः। प्राप्नुवन्त्यपि विप्रत्वं तानि चाद्य प्रवच्मि वः॥
SR No.032672
Book TitleSmruti Sandarbh Part 06
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages426
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy