SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ मार्कण्डेयस्मृतिः . अग्न्यतिथिदेवतादिपूजा त्रीनग्नीन् पञ्च चैकं वा गहन्यहनि सेवते । सर्वभूतदयायुक्तो न प्रेतो जायते नरः॥ देवतातिथिपूजासु गुरुपूजासु नित्यशः । रतो वै पितृपीतासु न प्रेतो जायते नरः ।। तीर्थयात्रापरो नित्यं देवतातिथिपूजकः । ब्रह्मण्यश्च शरण्यश्च न याति नरकं नरः ।। हेमन्ते वह्निदो यश्च तथा ग्रीष्मे जलप्रदः । वर्षास्वाश्रयदो यश्च न याति नरकं नरः ।। ब्रह्मचारी सदाध्यायो शुभकर्मपरः पुमान् । धर्माख्यानपरो नित्यं न याति नरकं पुनः॥ कपिलादानादिप्रशंसा कपिलानां च यो दाता वृषभस्य तथैव च । अन्नदाता च नियतं गंगास्नानरतश्च यः॥ अग्निहोत्रे च निरतो न स दुर्गतिमाप्नुयात् ।। विष्णुपूजा अर्चयन्ति हरं नित्यं विष्णुं जिष्णुं सनातनम् । प्राप्नुवन्ति महत्स्थानं पुण्ये श्वेतपुरे शुभम् ॥ सर्वे चतुर्भुजास्तत्र सर्वे गरुडवाहनाः । सर्वे चक्रायुधाश्चैव सर्वे विष्णुपराक्रमाः॥ शिवपूजा स्थापयन्ति च ये लिङ्ग नष्टं वा साधयन्ति ये । अचयन्ति सदा रुद्र माल्यलेपनार्जनैः (गन्धानुलेपनैः )। मुश्चन्ति वृषभान ये तु ते गत्वा शिवमन्दिरम् । तत्र सर्वे शिवभुजाः सर्वे ते शूलपाणयः॥ पान्ति सर्वे वृषैश्चैव सर्वे रुद्रपराक्रमाः। शंभु स्वयंभू देवेशं त्र्यक्षं त्रिदशवन्दितम् ।। येऽर्चयन्ति सदा शुद्धा न ते दुर्गतिमाप्नुयुः ।।
SR No.032672
Book TitleSmruti Sandarbh Part 06
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages426
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy