________________
दाने देयद्रव्यवर्णनम् फला
१०१
लभते च शिवं स्थानं बलिपुष्पप्रदानतः । प्रेक्षणीयप्रदानेन स्मृतिं मेधां च विन्दति ॥ सुरसंघ सभादीनि वापीकूपसरांसि वै । जीर्णान्युद्धरते यस्तु स संपूर्णफलं लभेत् ॥ पक्कान् ददाति केदारान् सकलान्येव पादपान् । षष्टिकोटिसहस्राणि ह्यर्बुदानां च वै त्रयम् ॥
क्रीडन्तीति स्वर्गफले एतदुक्त' न संशयः । अश्वं वा यदि वा युग्यं यो ददातीह पादुके ॥ तस्य दिव्यानि यानानि दुष्टपन्था नचैव हि । गृहागतं ब्राह्मणं च मधुपर्केण च क्रमात् ॥ भोजयित्वा यथान्याय्यं सूर्यलोके महीयते । दारिद्यार्णवमग्नानां अतिक्लेशातिदुःखिनाम् ।। तदुद्धृत्य यथाशक्ति सर्वान् कामानवाप्नुयात् । वस्त्रं जलं पवित्रं च दत्वाऽथ शिवयोगिने ॥ स महाभागमाप्नोति अन्ते योगं च शाश्वतम् । यो गां च महिषीं दद्यात् सालंकारां पयस्विनीम् ॥ कांस्य वस्त्रादिभिर्युक्तां स कामान् लभतेऽखिलान् । अन्नं वस्त्रं फलं तोयं तक शाकं घृतं मधु ||
पत्रं पुष्पं धनं धान्यं यानं यष्टिं कमण्डलुम् । व्रतत्रयं छत्रपात्रं व्रतविद्या सुरार्चनम् ॥ कन्याकुशोपनीतानि तिलौषधगृहाणि च । धूपक्षेत्रं यज्ञपात्रं योगपट्टे च पादुके ॥ कृष्णाजिनं बुद्धिदानं धर्मदेशकथात्मजम् । अर्थिने सततं देयं येन श्रेयो महद्भवेत् ॥ गोपीचन्दनखण्डं तु यो ददातोह वैष्णवे। कुलमेकोत्तरं तेन भवेदुत्तरितं शतम् ॥ तृषितस्य च पानीयं क्षुधितस्य च भोजनम् । निवेशनं दरिद्रस्य निद्रायाः शयनं तथा ॥ तथा भिक्षाप्रदानं च वेदानामर्थनिश्चयः । एतत्संहारवृक्षस्य फलमाहुर्महर्षयः ॥ चामरस्य प्रदानेन सर्वदुःखैर्विमुच्यते । तालवृन्तप्रदानेन सर्वपापैः प्रमुच्यते || पादपीठप्रदानेन स्थानं सर्वत्र विन्दति ।
स्थानमेव प्रदानेन तदाप्नोति दण्डं दत्वा द्विजातये ॥ यज्ञोपवीतदानेन वस्त्रदानफलं लभेत् । वस्त्रदानफलं तुच्छमौपवीतमनन्तकम् ॥