SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ दानफलवर्णनम् अशक्तस्यापि क्लुप्तोऽयं पञ्चसौवर्णिको विधिः । अष्टषष्टिपलोन्मानां दद्याद दक्षिणां गुरोः ॥ होतॄणां चैव सर्वेषां त्रिंशत्पलमुदाहृतम् । अध्येतृणां तदर्ध स्याद्वारपानां तदर्धतः॥ अतो न्यून न कर्तव्यं अधिक फलमूर्जितम् । दानकाले तु देवत्वं प्रतिमानां प्रकीर्तितम्॥ धेनूनामपि घेनुत्वं श्रुत्युक्त दानयोगतः । दातुर्वै दानकाले तु धेनवः परिकीर्तिताः। विप्रस्य व्ययकाले तु द्रव्यं तदिति चोच्यते । सर्वेषामपि दानानां हिरण्यमुदकं तथा । दानेनावश्यकानि पवित्रमुत्तरीयं च साक्षित्वं ब्राह्मणस्य च । अल्पदानेषु चेन्नैवं यथेच्छ तत्र चैककम् ॥ शौचमावश्यकं नित्यं मुष्टिं वा नाशुचिश्चरेत् । अत्राशुचित्वं संप्रोक्त मुष्टिदानादिकर्मसु । मूत्राघु त्सर्जनपरे तत्प्रक्षालनपूर्वके । योऽयं कालविशेषः स्यात्स आशौचमिति स्मृतः॥ स आचान्त इति प्राहुः केचिदत्र महर्षयः । अप्रक्षाल्य करौ पादौ गुह्यप्रक्षालनात्परम् अप्यकृत्वा च गण्डूषं कृत्वा तत्क्रयमेव वा । अनाचान्तो न दद्याकि ब्राह्मणेभ्यो विशेषतः ।। दत्वा ताहगवस्थायां नरो रौरवमाप्नुयात् । शुचिर्भूत्वैव सर्वाणि दानानि सुमुखश्चरेत् दानानामपि सर्वेषां तत्तत्फलमिहोच्यते ।। दानफलानि दारिदस्तुष्टिमाप्नोति सुखमक्षय्यमन्नदः। तिलपदः प्रजादिष्टां दीपदश्चक्षुरुत्तमम् ।। भूमिदः सर्वमाप्नोति दीर्घमायुर्हिरण्यदः।। गृहदोर्याणि (रम्याणि) वेश्मानि रुप्यदोरुप्यमुत्तमम् ।। वासोदश्चन्द्रसालोक्यं अश्विसालोक्यमश्वदः। अनडुग्दःश्रियं पुष्टिं गोदो बध्नस्य विष्टपम् ॥ यानशय्याप्रदो भार्यामैश्वर्यमभयप्रदः। .. धान्यदः शाश्वतं सौख्यं भोगमाप्नोति भोगदः ।। ..... । रनूपुरयोर्दाता रूपमाप्नोत्यनुत्तमम् । पुसीसकयोहाता वहिवृद्धिमवाप्नुयात् ।।
SR No.032672
Book TitleSmruti Sandarbh Part 06
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages426
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy