SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ ६८ मार्कण्डेयस्मृतिः तैरयं कृतकृत्यास्याच्चेतसा समनुष्ठितः । निखिलस्यापि चित्तस्य कृच्छ्राणां चर्यया कृतिः॥ कृच्छ्राणामपि तेषां तु धनदानमुखेन चेत् । मुहूर्तमात्रासिद्धिः स्यात्तहानं बहुरूपकम् ॥ ब्राह्मणस्य धनार्जनसाधनानि कर्मणां करणं चापि धनसाध्यं हि मुख्यतः । धनं हिरण्यादिरूपस्यात्तत्संग्रहणदानयोः॥ अधिकारी गृहस्थोऽयं तत्र चेब्राह्मणः पुनः । तदार्जनं च नान्येन वर्मनैव न चान्यथा॥ कुर्यादिति मनुः प्राह स मार्गो ब्राह्मणस्य तु । याजनं प्रथमं त्वेकं पश्चादध्यापनं पुनः॥ प्रतिग्रहो विशिष्टात्तु धनार्जनसुपद्धतिः। संपादितेन तेनैवं कुर्यात्कर्माणि बाडबः ।। सफलं कर्म यत्तत्स्यात्सर्वं दक्षिणया युतम् ।। ___अदक्षिणकर्मनिन्दा अदत्तदक्षिणं कर्म यद्यन्मन्त्रकृतं तु वा । कृतं वा नियमैस्सर्वैर्भक्या च श्रद्धयापि वा। विफलं तद्विजानीयाद्भस्मनीव हुतं हविः । श्रद्धायुक्तः शुचिर्दान्तः सर्वकर्म समाचरेत् ॥ अदक्षिणं चेत्तत्कर्म निखिलं निष्फलं भवेत् । कमणामपि सर्वेषां सुवर्ण दक्षिणेष्यते ॥ सुवर्ण दीयते देवैः रजतं पैतृकेष्यते । सुवर्ण रजतं तानं तण्डुलाधान्यमेव च ॥ रत्नानि गावो हस्त्यश्वाः रथा वासांसि वस्तुवत् । काष्ठादिकं जलं पात्रं शय्या खट्वा कटं कुटम् ॥ अजाविकं बहुविधं दक्षिणार्थं प्रकल्पितम् । औपासनं त्वग्निहोत्रं नित्यं सन्ध्यात्रयं तथा ॥ नित्यश्राद्धं वैश्वदेवं देवपूजा विशेषतः । भुक्तिकालैकसंप्राप्ततदातिथ्यं च केवलम् ॥ नित्यसूर्यनमस्कारस्सद्योऽयं स्याददक्षिणः । सर्वत्र शक्तितो भक्त्या दक्षिणां परिकल्पयेत् अनुक्तदक्षिणे दाने दोशं परिकल्पयेत् । महत्पूर्वेषु दानेषु दद्यानिष्कशतं सुधीः॥ मध्यमस्तु तदर्धेन तदर्धेनाधमः स्मृतः । मेषी पुरुषधान्येषु वृक्षाश्वजनधेनुषु ।
SR No.032672
Book TitleSmruti Sandarbh Part 06
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages426
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy