SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ सेष्टपूर्तवर्णने दानक्रियाघधिकारिवर्णनम् सात्विकादिदानानि दातव्यमिति यदानं दीयतेऽनुपकारिणे । देशे काले च पात्रे च तहानं सात्विकं स्मृतम् ॥ यत्तु प्रत्युपकारार्थ फलमुद्दिश्य वा पुनः । दीयते च परिक्लिष्टं तहानं राजसं स्मृतम् ।। अदेशकाले यहानमपात्रेभ्यश्च दीयते । असत्कृतमवज्ञातं तत्तामसमुदाहृतम् ।। सात्विकानां फलं भुङ्क्त देवत्वेनात्र संशयः । बाल्ये वा दासभावे वा राजसानां फलं भवेत्॥ तामसानां फलं भुङ्क्त तिर्यत्त्वे मानवस्सदा । कायिकं वाचिकं दानं मानसं च त्रिधा मतम् ॥ अर्हते यत्सुवर्णादि दानं तत्कायिकं स्मृतम् । आर्तानामभयं यत्तदेतद्वै वाचिकं स्मृतम्॥ विद्यया स्याद्यथायोग्यं तद्दानं मानसं स्मृतम् । पुण्यमिष्टमधीतं च दानं तद्विविधं पुनः वर्णितं सुमहाभागैरन्यैः कैश्चिदपि त्विदम् । अग्निहोत्रं तपस्सत्यं वेदानां परिपालनम् ॥ आतिथ्यं वैश्वदेवं च तदिष्टमिति कथ्यते । पुष्करिण्यस्तथा वाप्यः देवतायतनानि च ॥ अन्नदानमथारामाः पूर्तमित्यभिधीयते ॥ दानक्रियाद्यधिकारिणः एतादृशमहादानक्रियादिषु तु मुख्यतः । गृहस्थ एक एव स्यादधिकारी न चापरः। द्रव्याणामार्जने चापि मुख्यो न तु हि मस्करी । वनी वर्णी तु संप्राप्ते निमित्ते तु कदाचन ।। तन्मात्रे त्वधिकारी स्यान्नाधिके सुतरां यतिः । पतत्येवाशु हा कापि कदा धातुपरिग्रहात् ।। गृह्य वस्साधुः सर्वेषां कर्मणां प्रवरः परः । सवकमैकलोपेऽपि तस्य चित्तेन तत्तराम्॥ पश्चात्समीचीनतया शृतं भवति तत्क्षणात् । तस्यास्य साधकानि स्युः सुबहूनि महान्त्यपि ।।
SR No.032672
Book TitleSmruti Sandarbh Part 06
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages426
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy