________________
दानस्वापात्राणि एतद्धनं मया देयं तदा तस्मै च सत्र वै। अमिचिन्तनमित्युक्त मित्येव यत्तदु स्मृतम् ।। गंगाप्रतीर्रादिदेशः दानकृत्याय चोदितः । देश इत्येवविद्वतिः कालोऽपि ग्रहणादिकः॥
केचित्वत्र पुनः प्रोचुः प्राकारान्तरमाश्रिताः ।
तमप्यत्र प्रवक्ष्यामि महात्मानो जितेन्द्रियाः॥ अपराबाधमक्लेशं स्वयत्नेननार्जितं धनम् । स्वल्पं वा विपुलं वापि देयमित्यभिधीयते
यत्र यद् दुर्लभं द्रव्यं यस्मिन् कालेऽपि वा पुनः।
दानाही देशकालौ तौ स्यातां श्रेष्ठौ न चान्यथा ॥ दुष्फलं निष्फलं हा(दा)नं तुल्यं विपुलमक्षयम् । षड्विपाकयुगादिष्टं षडेतानिविपाकतः
दानस्यापात्राणि मास्तिकस्तेनहिंस्तेभ्यः जाराय पतिताय च । मिथुनभ्र णहत भ्यः परक्षेत्रापहारिणे ॥ सदूषकाय च ग्रामद्रोहिणे ग्रामवाहिने । न्यायसंप्रा (१) कपरा जयानन्तमप्यति ॥ अजितोऽहमनिर्लजमिति वक्तत्रेऽतिपापिने । संजातस्पष्टदुष्कृत्यसत्यनष्टनृशालिने । सत्यसंप्राप्तदौर्गत्यपराजयपराय च । तत्पराजयनिर्लजमयराहित्यवाक्छलैः ।। प्रतिवादिद्रव्यहरॆ प्रदत्तं दुष्फलं भवेत् । अयं पापः क्र कर्मा पापभीतिविवर्जितः ॥
निर्लजः कर्कशस्तीक्ष्क्षणः परस्वागतमानसः ।
व्यवहारजितोऽत्यन्तं अजितोऽस्मीति वाद्यपि ॥ देवसन्निधितत्सत्यनष्टस्वनरशाल्ययम् । इति ज्ञात्वापि यस्तेभ्यः दानकर्म समाचरेत् ।
तन्निष्फलं भवेन्नूनं तस्मात्तन्न तथा चरेत् ।।
अन्यव्यं तस्य भोग्यमन्यप्राप्यं च कालतः ॥ तत्कालैकनिरुद्धं च विवादास्यददुस्तरम् । परबाधाकरं लुम पुनः साधारणं तथा ॥ महदप्यफलं दानं श्रद्धया परिवर्जितम् । तद्वीनं दानमित्युक्त न कार्य तच्च निन्दितम् ।। यथोक्तमपि यद्दतं चित्तेन कलुषेण वा। तत्तु संकल्पदोषेण दानं तुल्यफलं फवेत् ॥ युक्ताङ्गुः सकलैः षड्भिः दानं स्याद्विपुच्चोच्यम् । अनुक्रोशववादत्तं दानमक्षय्यतां व्रजेत्