________________
दानप्रशंसावर्णनम्
आत्रेयः खण्डवमयोरर्हतो द्विविधं धनम् ।
दत्वा लोकान्ययौ धीमान् अनन्तास्स महीपतिः ।
शिविकाशी नरोऽङ्गानि पुत्रं च प्रियमौरसम् । ब्राह्मणार्थ (...?) नाकपृष्ठमुपागतः ॥ प्रतर्दनः काशिपतिः प्रदाय नयने स्वके । ब्राह्मणायातुलां कीर्ति इह चामुत्र चाश्नुते ॥ दीर्घमृष्टशलाकं तु सौवणं परमृद्धिमत् । छत्रं स्वर्णमयं दत्वा सराष्ट्रोऽप्यव (प) तद्दिवम् ॥ संकृतिश्च तथात्रेयः शिष्ये (... १) गुंणम्। उपदिश्य महातेजाः गतो लोकाननुत्तमान् ॥ अम्बरीषोङ्गदे दत्वा ब्राह्मणेभ्यः प्रतापवान् । अर्बुदानि शतैकं च सराष्ट्रोऽभ्यपतद्दिवम् सावित्रः कुण्डले दिव्ये शरीरं जनमेजयः । ब्रह्मणार्थे परित्यज्य जग्मतुर्लेकमुत्तमम् ॥ सर्वरत्नं वृषादर्विः यवनाश्वः प्रियां स्त्रियम् । रम्यमावसथं चैव दत्वा स्वर्लोक्रमाश्रितः ॥ निमिराष्ट्रं च वैदेद्दो जामदग्न्यो वसुंधराम् |
ब्राह्मणेभ्यो ददौ चापि गयश्वोव सपट्टणाम् ॥
राजामित्र सहश्चैव वसिष्ठाय महात्मने । मदयन्तीं प्रियां दत्वा तया सह दिवंगतः ॥ सहस्र जिच्च राजर्षिः प्राणानिष्टान् महायशाः । ब्राह्मणार्थे परित्यज्य गतो लोकाननुत्तमान् ॥ सर्वकामैश्च संपूर्ण दत्वा वेश्म हिरण्मयम् । मुद्गलाय गतः स्वर्गं शतद्य म्नो महायशाः ॥ नाम्ना च द्युतिमान्नाम साल्वराजप्रतापवान् । दत्वा राज्यमृची काय गतो लोकाननुत्तमान् ॥ मद्रराजश्च राजर्षिः ः दत्वा कन्यां सुमध्यमाम् । सुवर्णहस्ताय गतो लोकान् देवैरभिष्टुतान् || रोमपादश्च राजर्षिः शान्ती दत्वा सुतां प्रभुः । ऋष्यशृङ्गाय विपुलैः सर्वकामैरयुज्यतः || दत्त्वा शतसहस्रं तु गवां राजा प्रसेनजित् । सवत्सानां महातेजा गतो लोकाननुत्तमान् ॥
६३