________________
६२
मार्कण्डेयस्मृतिः देवालयं नो विदधाति वा कुण्डं तटाकं न करोति रूपम् । पुण्यं विवाहं स्वजनोपकारं तथा प्रपा वा द्विजमन्दिरं वा ।।
धनं सदा भूमिगतं प्रकुर्यात् यदृच्छया लब्धमनन्यचित्तः । ___. स्वयं न भुञ्जीत तथाविधं चेत्परोपकाराय भवेत्तु तद्धि ॥ अहन्यहनि याचन्तमहं मन्ये गुरु यथा। अदत्वाहं दरिद्रोऽस्मि त्वं दत्वा भूर्धनी महान् ॥ मार्जनं दर्पणस्यैव यः करोति दिने दिने । दानप्रबोधकस्तस्मादरिद्रोऽयं नृणां सदा॥ किं धनेन करिष्यन्ति देहिनो भंगुराश्रयाः । यदर्थ धनमिच्छन्ति तच्छरीरमशाश्वतम् ॥ प्रासादर्धमपि प्रासमर्थिभ्यः किं न दीयते । इच्छानुरूपो विभवः कदा कस्य भविष्यति॥ अदाता पुरुषस्त्यागी धनं संत्यज्य गच्छति । दातारं कृपणं मन्ये मृतोऽप्यर्थ न मुञ्चति।। अक्षरद्वयमभ्यस्तं नास्ति नास्तीति यत्पुरा । तदिदं देहि देहीति विपरीतमुपस्थितम् । बोधयन्ते न याचन्ते देहीति कृपणा जनाः। यै भुक्तं न च हुतं तीर्थे न (......?)॥ (.....................१ ) मरणं कृताः । हिरण्यमन्नमुदकं ब्राह्मणेभ्यो न चार्पितम् ॥ दीना विवसना रुक्षाः कपालाकितपाणयः। दृश्यन्ते किल सर्वत्र ते यैः पूर्व जनैः किल॥.
सदाचाराः कुलीनाश्च रूपवन्तः प्रियंवदाः । बहुश्रुताश्च धर्मज्ञाः दातारः स्युः श्रियान्विताः॥ अलब्धमुष्टिमात्रश्च याचमानाः परानति । दृश्यन्ते दुःखिनः सर्वे प्राणिनः सर्वदा भुवि ।। अदत्तथा न जायन्ते परभाग्योपजीविनः।
मा ददास्येति यो प्रयाद् गव्यग्नौ ब्राह्मणेषु च ॥ तिर्यग्योनिशतं गत्वा चाण्डालेष्वभिजायते । एकेन तिष्ठताधस्तात् अन्येनोपरितिष्ठता ।। दातृयाचकयोर्भेदः कदाभ्यामेव सूचितः। प्राप्तानामनुरूपाणां पात्राणां दानकर्मणः ॥ देशे कृत्स्नेपि काले वा नादेयं यस्ति किंचन । उच्चैश्रवसमश्वं प्रापणीयं सता विदुः॥ अनुनीय यथाकामं सत्यसन्धो महाव्रतः । स्वैः प्राणै ब्राह्मणः प्राणान् परित्राय दिवंगतः रन्तिदेवश्च सांकृत्यो वसिष्ठाय महात्मने । अपः प्रदाय शीतोष्णाः नाकपृष्ठमितगतः॥