________________
प्रायश्चित्तवर्णनम् हंसस्तृतीयइत्युक्तः चतुर्थेस्तु तथापरः । यतिः परमहंसाख्यः कुटीचकबहूदकौ ॥ षट्तीरयुक्तगायत्रीजापको शिखिनौ तथा । एकोपवीतिनौ स्यातां दण्डवयसमन्वितौ । भिक्षान्नप्राशनौ नित्यं ब्रह्मचिन्तापरायणौ। त्यक्तपुत्रकलत्रादिजनौ वैराद्यभागिनौ ॥ एतदिन्नौ तावप्यन्यो एकदण्डौ गतायो । त्यक्तोपवीतिनौत्यक्तगायत्रको गिरायौ। मन्त्रत्यक्तशिखौ सम्यक् जितरोषौ सपुण्डूको । गृहीतप्रणवौ सन्तौ ब्रह्मनिर्वाणमृच्छतः चतुर्विधानमेतेषां वैकल्ये किल कर्मसु । प्रायश्चित्तं तारतम्यात्प्राणायामविशेषतः॥ नान्येन येन केनापि तस्मात्तेषां जपं विना । प्रणवस्योत्तारणाया वर्तते जगतीतले।
होमो दानं तपः कतुं नाधिकारोयतःस्मृतः।
चित्तं दानादिभिः कृच्छ्रः ब्रह्मचर्यादिकस्य चेत् ॥ आश्रमत्रितयस्याप्यधिकारः शास्त्रसंमतः । संप्राप्तानां तु चित्तानां करणाय महात्मभिः॥
मुख्यात्कृच्छ्रमुखेनैव सरणिः सा निरूपिता।
तानि कृच्छ्राणि साक्षाद्वै प्राजापत्यादिकानि हि॥ कतुं न सत्वरं सर्वैः साक्षादीशमुखैरपि । न शक्यते हि सुतरां किंतु तानिप्रवच्मि कः।।
प्रायश्चित्तप्रतिनिधिः प्रत्यम्नायमुखेनैव न चेत्प्रतिनिधित्वतः । करणं सर्वदा प्रोक्तं ते स्युर्बहुविधाः पराः॥
विधितः प्रतिनिधयः सम्यग्ब्राह्मणभोजनम् ।
गोदानं वा नदीस्नानं गोमूल्यं वा तथा परम् ॥ निष्कदानं च गायत्री दशसाहस्रसंख्यया । जपो वा संहितामात्रपारायणमथापि वा। शिष्टान्नभोजनं चापि समान्याहुर्मनीषिणः । सप्तगङ्गावगाहश्चेष्टकृच्छ्रफलप्रदः ॥ यत्रकुत्रापि वैकत्र तासुनित्यं न संशयः । पारावारस्नानमेकं कृच्छ्रद्वादशदायकम् ॥ चापाप्रस्नानमेकं चेदब्दकृच्छ्रफलप्रदम् । भागीरथीमहास्नानं सर्वपापापनोदकम् ।। अष्टोत्तरप्राजापत्यशतकृच्छ कलप्रदम् । गंगासागरसंगस्य स्नानमेकं तु तत्परम् ॥ अष्टोत्तरसहस्राणां कृच्छ्राणां फलदायकम् । तदेतज्जाह्नवीसिन्धुसङ्गस्नानं विशेषतः ।।