________________
श्राद्धप्रकरणवर्णनम् २५४१ उपन्यस्तानि तावत्तु यावत्स्यात्प्रकृते:पुनः । संभवरतेन गोत्रेण कुर्यात्पुत्रस्य संग्रहः ॥१२६।। शस्येण निहतस्यैवं चतुर्दश्यां पितुः श्रुतम् । दक्षे महालयाख्येऽस्मिन् एकोद्दिष्टाख्यवर्मना ॥१२७।। सर्वेषामविशेषेण एकोद्दिष्टविधानतः। श्राद्धानि निखिलान्याहुः सपिण्डीकरणं विधि(:) ॥१२८॥ परं सपिण्डीकरणात्सोदकुम्भानि कृत्लशः। पार्वणेन विधानेन मासिकानि चरेत्परम् ।।१२।। संवत्सरविमोकाख्यं संततेच्छेति(?) तत्क्रमः । अपुत्रस्य पितृव्यस्य भ्रातुश्चैवाऽग्रजन्मनः ॥१३०।। मातामहस्य तत्पल्या:श्राद्धं पितृवदाचरेत् । पितृवत्करणं ह्यतत्प्रति संवत्सरं ततः ॥१३।। अत्यंतावश्यकत्वेन कारणं ह्य तदुच्यते । नौपासनानौ तत्कुर्यादग्नौकरणमञ्जसा ॥१३२।। तपित्रोरेव पत्न्याश्चतन्मातामहयोरपि । अग्नौकरणमित्याहुर्द्धर्मज्ञास्तत्त्वदर्शिनः ॥१३३।। नियामकं किमत्रेति प्रश्नाकांक्षा भवेद्यदि । समाधानं वक्ष्यतेऽस्यास्तद्रहस्यं श्रुतीरितम् ॥१३४॥ नित्यनैमित्तिकेष्वेषु काम्येषु सकलेष्वपि । .. ए(?)षां वा देवतात्वं स्यात्तेषामोपासनोनत्वः(नेन च)॥१३५ अग्नौकरणकार्यात्तु भ(भवतीति)तीतन:(त) पुनः(१) । तहि पल्याः कथंचेति प्रश्नाकांक्षा पुनर्भवेत् ।।१३६॥