________________
श्राद्धप्रकरणवर्णनम् २५३५ प्रसक्ते सति तैरेतच्छाद्धकार्य कथञ्चन । कुत्र केन कथं कस्मात्प्रभविष्यति वै तदा । किं कुर्मश्चेति तञ्चिन्तापर एव स्थितो भवेत् ॥ ६२॥ तावन्मात्रेण तेषान्तु नित्यमेव विधानतः। कृतमेव भवेच्छाद्धं कीर्तनादेव केवलम् ।। ६३ ॥ समीचीनव्रीहिमाषमुद्रप्रमुखदर्शने। एतत्तुलितवस्तूनि स्वपितृणां मृतेऽहनि ॥ ६४॥ यत्नात्संत्यादीप्या(?)न मयात्तेवदेन्मुदा। न वयस्याः समुद्दिश्य भावयेद्वा स्वचेतसा ।। ६५॥ शक्त्या कालेन च ततः तदथं वस्तुसंग्रहम् । कुर्यादेव स्वयं भक्त्या पितृणां प्रीतिहेतवे ॥६६॥ पश्चाच्छ्राद्धेऽप्य पूर्वेम्य(?)रात्रौ कव्यस्य तद्भवेत् । श्वःकत्तव्यस्य तन्नाऽधात् स्वीकुर्यात्कामतःस्वयम् ॥६॥ रात्रौ कृताशनान्विप्राच्छाद्धे चैव निमन्त्रयेत् । ततः प्रातर्विधानेन स्नात्वा सन्ध्यामुपास्य च॥ ६८॥ कृत्वाऽग्निहोत्रं स्मार्तं च ब्राह्मणान्वै निवेदयेत् । श्राद्धेऽत्राऽऽहवनीयस्य स्थाने वै मन्निमित्ततः ॥ ६६ ।। प्रसादो भवता कार्य इति वाक्येन केवलम् । केवलं लोके नैव वृणुयाद्दर्भ दत्वा भवापुनः(?) ॥७०॥ तूष्णीं वा प्रति विप्राणामेवमेव विधिःस्मृतः। सर्वेषां पुनरप्येषां प्रति पूष (4) त्रयो मताः ॥ ७१॥