________________
२५३०
कपिलस्मृतिः अथाऽपि मुख्यसार्थ(झ)निश्चयैः श्रुतिसिद्धगैः। ब्राह्मण्यसाधकः कर्मविशेषैरेव तत्परम् ॥६॥ ब्राह्मण्यं तत्समीचीनमतितीक्ष्णतरं शिवम् । सुस्थितं प्रभवो नो चेन्न तिष्ठति रे(?)श्रितेति ॥१०॥ निष्कर्षस्सुमुखोऽयं (च) तस्मिन्नर्थे न संशयः। अथाऽपि सूक्ष्मं वक्ष्यामि तन्ममैकमनाः शृणु ॥ ११ ॥ अब्राह्मणेषु सर्वेषु सर्वस्मिन्ब्राह्मणब्रवे( वे)। नामधारकमात्रेषु श्रोत्रियेषु महत्स्वपि ॥ १२॥ सर्वेष्वपि च वेदेकपारगेषु महात्मसु । ब्रह्मत्वमेकसामान्यात्तिष्ठत्येव ह्यनश्वरम् ॥ १३॥ तन्महत्तारतम्येन न्यूनं चाऽधिकमेव च । महश्च सुव मोहचाऽपि दोषयुक्तं गुणोत्तरम् ॥ १४ ॥ निर्दोषम(मि)ति भेदेन बहुधाभि(हि)मृतेति(स्मृत)तत् । सर्वकमैकशून्येऽस्मिन्कलौ पापैकसङ्कुले ॥ १५॥ कर्मानुरूपं ब्रह्मत्वं प्रतिष्ठति हि भूतले । तन्न दूष्यं दुराधर्ष युगधर्मानुरूपकम् ॥ १६ ॥ परान्नेन मुखं दग्धं हस्तौ दग्धौ प्रतिग्रहात् । परस्त्रीचिन्तया चित्तं कुतः (त्र) शापः कलौ युगे ।।१७।। तिरी (रो) हितस्तत्र वेदः स्वभावात्पुनरि (रे) ष्यति । कुतर्वाधितोऽत्यन्तभाषापद्ध(न्थ)न राजते ।। १८ ॥ भाषाप्रध(न्थ कुतर्काणामागमानां प्रचारणात् । वैष्णवानांशोभ(ना)नां पुरान्नेवाना(पुरुषाणां)दुरात्मभिः१६