SearchBrowseAboutContactDonate
Page Preview
Page 731
Loading...
Download File
Download File
Page Text
________________ भारद्वाजस्मृतिः तपोवनमृषीणां यत्तत्तदाश्रममिति स्मृतम् । वासस्थानं गवां यत्तदुदितं गोनिकेतनम् ||५७|| स्थानं तपस्विनां यच भवेत्तस्यमदाह्वयम् । स्नात्वा शुचिर्द्विजः श्रेष्ठश्चरणौ च ककाततः ॥ ५८ ॥ प्रक्षाल्याचम्य विधिवत्प्राङ्मुखो वाऽप्युदङ्मुखः । कृष्णाजिनासनालाभे कुशक्लासनोऽपिवा ॥ ५६ ॥ स्थित्वा समाहितमनाः प्राणायानं समाचरेत् । ततो गणेश्वरं वाचं स्वाचार्यं त्रिदशानृषीन् ||६०|| पितृन्ब्राह्मणमज्जाक्षं रुद्रं भक्त्याभिवादयेत् । ततः प्रणवमुच्चार्य व्याहृतित्रितयं ततः ॥ ६१ ॥ नवतींसगृह्णीयात्तत्सूत्रं चतुरंगुलैः । तदेवाचिररूपेण कुर्वीत त्रिगुणां ततः ॥ ६२ ॥ तत्संप्रक्षालयेच्छुद्धैरम्बुभिः प्रणवेन च । व्याहृतित्रितयेनाधस्तत्कू चपारे निक्षिपेत् ॥६३॥ ३१७८ आपोहिष्टादिभिर्मन्त्रैः कुशैस्तन्मार्जयेत्त्रिभिः । हिरण्यवर्णा इत्याद्यैश्चतुर्भिर्मार्जयेत्ततः ॥ ६४ ॥ पवमानानुवाकेन ततो मार्जनमाचरेत् । उपवीतकृतौ विप्रः शुद्धौ द्वौ देवभाषितौ ॥६५॥ एकोनं वा ततो विप्रश्चान्यो मध्यमधारकः । प्राक्प्रत्यग्वदनो विप्रः दक्षिणाभिमुखोऽपि वा ॥ ६६ ॥
SR No.032671
Book TitleSmruti Sandarbh Part 05
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages768
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy