________________
यज्ञोपवीतविधानम् एतान्यष्टादशआणि पुण्याण्यक्षयाजनुः । हस्ताभिजिद्नुराधश्वयुक्प्रौष्ठ पदाह्वयाः ॥४७॥ तिष्यः पुनर्वसूचेतिताराः पुंसज्ञका इमाः । आसूपवीतं कुर्वीत द्राकर्मफलवाचकः ॥४८॥ ऋक्षेषु जन्मश्रेष्ठःस्याञ्चतुर्थ षष्ठमष्टकम् । द्वितीयं नवमं चान्यस्वस्वताराः शुभेतराः॥४६॥ तृतीये सप्तमे षष्ठे दशस्वस्य(स्व?) जन्मनि । एकादशे स्थितश्चंद्रः शुभप्रद इति स्मृतः । ताराचंद्रबलोपेते दिवसे स्वस्य कल्पयेत् ॥५०॥ ब्रह्मसूत्रं तयोहीनबलेनैव प्रकल्पयेत् ।
गथर्वयजुः साम्नां क्रमादेतेऽधिपाः स्मृताः ॥५१॥ देवेड्ययेमरुक्पुत्र दैतेयाराध्यभूमिजाः । स्वस्ववेदे शखेर(?)वस्यवारेतदुदयेऽपिवा ॥५२।। विदर्घितोपवीतानि तदलाभे शुभेऽहनि । बृहस्पतिः सुराचार्यः रोहिणेयो हिमांशुकः ॥५३।। एते शुभग्रहास्त्वेषां वासराः शुभवासराः । देवस्थानं नदीतीरमाश्रमं गोनिकेतनम् ॥५४।। मठश्चैतेषु लब्धेषु कुर्याद्यज्ञोपवीतकम् । ब्रह्मविष्णुशिवस्सूर्यः दुर्गागणपतिर्गुहः ॥५५॥ एतेषान्तु मुनिस्थानं देवस्थानमिति स्मृतम् । गंगादिसरितां कूलं नदीतीरमितिस्मृतम् ॥५६॥