________________
यज्ञोपवीतविधिवर्णनम् विश्वस्थान प्रशस्तेति केचिदाहुमहर्षयः। कीर्तितं स्वस्य हस्तेन सूत्रमित्युत्तमं स्मृतम् ।।२।। द्विजकर्मादिभिःपश्चादशक्तश्चेदयं यदि । उत्तमस्तंतुकद्रौक्मः कलधौतस्तुमध्यमः ॥२६।। कनिष्ठस्थानकश्चेति तंतुकर्मण्युदीरितम् । द्विषडङ्गुलमात्रायामंगुल्यां तस्य तु प्रमा ||२७|| कलाकालक्षणं त्वेवं प्रोक्त तंतुकृतः खलु । व्यासोन्नतेंऽगुले वृत्तं समातन्तुकृतौ मता ॥२८॥ लक्षणं द्विधमाख्यातं यन्त्रं तन्तु क्रियार्हकम् । तस्मिन्मणिशलाकान्तं संप्रोक्ष्याद्वयवायतम् ।।२६॥ विनिर्गतं स्थितं यत्तत्तन्तु कृत्स्नमुदीरितम् । तन्तुकृत्प्रोतलोहानां लज्जेनैकेन निर्मितम् ॥३०॥ पात्रं भवेदलाभे वा यज्ञंयदमनिर्मितं । षडंगुलोच्छ्रयं तस्य व्यासमंगुलपंचकम् ॥३१॥ पाणिग्रीवान्वितं यत्तत्तन्तुकृत्पात्रमुच्यते । सार्द्धद्वयांगुलं पात्रं तदांघ्रिः कंधरांगुलम् ॥३२॥ उच्छेधस्तस्यविस्तारं कर्णस्य व्यंगुलं भवेत् । तन्तुकृद्भ्रमणं स्थानं पात्रं ख्यातं द्विरंगुलम् ॥३३॥ तथैव पादखातं स्यात् कर्णरंधं यथारुचि।। लोहकंकुटकान्येषु यथालब्धे न वा कृतः ॥३४॥ काकादीनां तन्तुकृतां अलामे तन्तुकृद्भवेत् । कुचन्दनश्चखदिरः कस्यत्मणिकर्मणि ॥३५॥ . .