________________
३१७४
भारद्वाजस्मृतिः न्वेष्टंयावत्स्थलं तावदवटं जानुमात्रकम् । गोमयेन प्रलिप्तेन स्वोक्तवर्णान्मुदा सह ॥१४॥ . अंबूनि निर्वपेद्वीजं सकार्पासद्वयं शिवम् । प्रणवेनाभिमन्त्र्यैव ततस्तोयं प्रसेचयेत् ।।१५।। आपोवाइतमित्यादि सूक्त नैवाभिमंत्रितम् । ततः शुद्धाम्बुनैकेन तत्सस्यमनुवर्धयेत् ।।१६।। तथा जातेषु जातं यत् कार्पासमतिशोभनम् । श्वेतलोहितपीताःस्युः विप्रक्षत्रविशां क्रमात् ॥१७॥. वर्णशूद्रस्य कृष्णःस्याद्वर्णोऽन्यः संकरः स्मृतः । स्वक्षेत्रात्स्वहृतं श्रेष्ठं कार्पासं धवलं द्विजैः ॥१८॥ पितरैरपि वा शुद्धं उपवीतकृतौ शुभम् । फलवत्तुषकेशास्थि तृणवल्कानि यत्नतः ।।१।। पात्रे पवित्रं संस्थाप्य प्रयतः शोधयेद्विजः । तस्मिन्कराभ्यां मुच्येत कार्पासबीजसंचयम् ।।२०।। कार्पासरज्जुशापेन कुर्वीत मृदु कर्म तत् । तेनैव द्विजकर्माऽथ कार्तिकं सूक्तमुत्तमे ।।२१।। शुद्धाभिर्विधनाभिर्यास्वस्यगोत्राभिरथापि(रप्यथा) वा। पुंश्चलीमीरुदक्यांभिःकन्यकाभिश्च(?) पुरन्ध्रिभिः ।।२२॥ तंतुकर्म न कर्त्तव्यं कार्पासमृदुकर्म च । आसु न्यूनाधिकागाश्च कुत्सितावयवा अपि ॥२३॥ असौम्यापनकेनस्यु योषिस्तं(?) (योषितस्तत्प्रोकल्पने। सुमंगल्या कन्याप्रशस्ता(स्यात्तु कर्मणि ॥२४॥