________________
३१ ७२
भारद्वाजस्मृतिः ताम्बूलं भावयेच्छ्राद्धं यत्तन्नयनवल्लभम् । श्रेष्ठानि पत्रवस्त्राणि महााणि च सर्वदा ॥६०॥ एषामलाभे कार्याः स्युर्वासांसि प्रयतानि वा । नेत्रप्रियाणि सूक्ष्माणि नूतनानि घनानि च ॥६१॥ यान्याहृतानि वस्त्राणि प्रशस्तानि भवंति हि । आहुर्दग्धानि जीर्णानि अन्यैरपि धृतानि च ॥६॥ कृमिदुष्टानि जीर्णानि स्थूलान्युपहतानि च । दुष्करं सुप्रयुक्तानि देवताभिभूतानि च ॥६३।।
नूतान्यस्यानिलब्धानि सस्युशस्थानिजा'चित्(?) । . एवं सर्व समाख्यातं द्रव्याणां लक्षणं स्फुटम् । एतज्ज्ञात्वा द्विजोदेवीं सद्भिद्रव्यैः समर्चयेत् ॥६४॥ ॥ इति श्रीभारद्वाजस्मृतौ पूजाद्रव्योपकरणवर्णनं नाम
चतुर्दशोऽध्यायः ॥
अथ पञ्चदशोऽध्यायः
यज्ञोपवीतविधिवर्णनम् अथ यज्ञोपवीतस्य विधिं सम्पद्विजन्मना । श्रौतस्मार्तक्रियासिद्ध्यै प्रवक्ष्येऽखिलशाखिनाम् ॥१॥ यज्ञोपवीतं. धृत्वैव सर्वकर्माणि सर्वथा। श्रौतस्मार्तानि चान्यानि कुर्यात्पुण्यानि च द्विजः॥२॥