SearchBrowseAboutContactDonate
Page Preview
Page 720
Loading...
Download File
Download File
Page Text
________________ नानाद्रव्यगन्धलक्षणम् अक्षताश्चेत्यभिहितास्ते प्रशस्ताः समर्चने । कृष्णाः कड्गा(? बहुविधाः पुरुषाश्चमलीमसाः॥६॥ ब्रीह्यक्षता अपि क्षुद्राः न हि योग्याः समर्चने । मालतीमल्लिकाशोकाः जीवन्ती नवमल्लिकाः ॥ ७ ॥ पुन्नागवकुलांभोजाः पाटलोत्पलचंपकाः । कदंबकर्णिकाराख्यपलाशकरवीरकाः ॥ ८॥ मंदारनागविजयश्वेतमंदारकेसराः । कोजुकामतमातल्लिसंध्यावर्तकुसुंभकाः॥६॥ बकागस्यासनद्रोण आरग्वधककांचनाः। त्रिसंध्य पृथुवालार्कजपास्युः पुष्पसंकटः ॥१०॥ एषां पुष्पाणि सततं प्रशस्तानि समर्चने । एषु लक्षणयुक्तानि योग्यानि कुसुमेष्वपि ।।११।। अलक्षणानि पुष्टानि न योग्यानि कदाचन । सदलानि न नालानि सुपक्कानि नवानि च ॥१२॥ स लक्षणानि तान्याहुः पुष्पाण्यक्षिप्रियाणि च । पुष्पेषु चतुर्वर्णा भवन्तिधवलादयः ॥१३॥ तानि सर्वाणि पुष्पाणि प्रयोज्यानि समर्चने । प्रयोज्यान्यर्चनादिभिः(एणि पुण्यगन्धानुलेपनैः)॥१४॥ अतिपक्कान्यपक्कानि तप्तानि विदलानि च । निर्नालानि प्राक्तनानि केशकीटयुतानि च ॥१२॥ विशीर्णानि सरंध्राणि कृष्ठोपहृतानि च।। एतान्यलक्षणादीनि पुष्पाणि कार्थ(कथि?) तानि तु ॥१६॥
SR No.032671
Book TitleSmruti Sandarbh Part 05
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages768
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy