________________
भारद्वाजस्मृतिः महाध्यानमिति प्रोक्तं एतद्ध्येयं द्विजातिभिः। सद्विजायपरेष्टव्यं(प्रदातव्यं) अन्यस्मै न कदाचन ॥४३॥ द्विजः सदा महाध्यानाध्यायमेतं परः शुचिः। सर्वपापविनिर्मुक्तस्स याति परमं पदम् ।।४४॥ ॥ इति श्रीभारद्वाजस्मृतौ महाध्याननामक
स्त्रयोदशोऽध्यायः॥
अथ चतुर्दशोऽध्यायः पूजाफलसिद्धये द्रव्यगन्धलक्षणवर्णनम् अथार्चनोक्तद्रव्याणां गंधानां च पृथक् पृथक् । लक्षणं संप्रवक्ष्यामि सपर्याफलसिद्धये ॥१॥ चंदनागरुक'रकाश्मीरजचतुष्टयम् । गंधाख्योऽयं विलेप्यास्या भक्त्यावापि पृथक् पृथक् ॥ २ ॥ चंदनागरुकपर कुंकुमस्निग्धकर्दमः । गंधोत्तमइति प्रोक्तः श्रेष्ठः सर्वानुलेपने ॥३॥ पूतिमृगमदादीनि पुण्यांगानि विशेषतः । द्रव्याण्यतिसुगंधीनि प्रमृज्यान्यनुलेपने । चंदनागरुलोहाख्य काश्मीरजचतुष्टयम् ॥ ४॥ एकैकमष्टद्वितयशतसंख्यागुणाधिकम् । अभिन्नाशंखवश्चेताः सुस्निग्धा व्रीहितण्डुलाः ॥५॥