________________
भारद्वाजस्मृतिः । पुष्पावतंसाज्योतींषि हरो नक्षत्रमालिका । रसाकल्पावनीरुहः मीमांसालक्षणानि च ॥२१॥ विद्याविधौशिरः पश्चा(द) अथर्वाख्यो विचेष्टितः । वेदान्तशास्त्रं विमलं मानसं परिकीर्तितम् ।।२२।। ब्रह्मा मुखं शिखा रुद्रः विष्णुरात्मा हृदि स्थितः। एतल्लक्षणसंपन्ना गायत्रीति प्रकीर्तिता ॥२३॥ सांख्यायनस्य गोत्रैषा जगद्रूपाखिलेश्वरी। एवं ज्ञात्वा स्वहृत्पद्म दिव्याकाशेऽन(?) स्थले ॥२४॥ हैमे सिंहासने देवीं स्थितां ध्यात्वा द्विजोत्तमः । भद्रपीठेदयाघूढ़े नानारत्नसमन्विते ॥२॥ पद्मासनेऽथवा सौम्ये तदायाते स्वचेतसः । पाद्यमाचमनं चाध्यं वस्त्रं यज्ञोपवीतकम् ।।२६।। चंदनं चाक्षतं पुष्पंधूपदी निवेद्यकम् । करानुलेपं तांबूलं दत्वाधिजपमाचरेत् ॥२७॥ प्रदक्षिणप्रणामांश्च यथाशक्त्या च कारयेत् । स्तुत्वाऽथ विविधैस्तोत्रैर्देवीमुद्वासयेत्ततः ॥२८॥ एतान्यमूनि द्रव्याणि प्रोक्तानीहार्चनाधुना : मानसोक्तानि सिद्धानि शुभानि द्रव्यजानि च ।।२।। एवं द्विजोत्तमः सम्यनियमेनैव सर्वथा । यो ध्यानेनार्चयेद्देवीं सर्वाभीष्ट लभेत्ततः ॥३०॥ ध्यानं कृत्वा ततः सम्यग्ब्राह्मणस्य महात्मनः । महापातकपूर्वाणि न स्पृशंन्ति तमांस्यपि ॥३१॥