SearchBrowseAboutContactDonate
Page Preview
Page 715
Loading...
Download File
Download File
Page Text
________________ अथ त्रयोदशोऽध्यायः गायत्रीमूलध्यानवर्णनम् अथातः संप्रवक्ष्यामि मूलध्यानं तदात्मकम् । धैतः(देव)प्रसादजननं(सर्वाघोघ)सर्वथाघविनाशनम् ॥१॥ सर्वथाऽनुष्ठितं सिद्धं मुनिभिस्तत्त्वकांक्षिभिः । महानुभावैरमरै रवि सद्भक्ति तत्परम् ॥ २ ॥ अन्येषामपि सर्वेषां निखिलाभीष्टसिद्धिदम् । तस्मादिदं महाध्यानं ध्यातव्यं द्विजसत्तमैः ॥ ३॥ स्नात्वा शुद्धः शुचौ देशे प्रक्षालितपदद्वयः। स पवित्रकरद्वंद्वः कृते चास्पर्शने द्विजः ॥४॥ अमिहोत्रजयाभूत्या शुद्धयाजलसिक्तया। धृत्वालिकादि स्नानेष पुंडूच पञ्चसु ॥५॥ कुशासने प्राग्वदनः उदग्वक्त्रोयथामति । उपविश्य गुरुं वाचं गणेशं प्रणमेदथ ॥६॥ त्रिप्राणसंयमो भूत्वा भूर्भुवादित्रयेण तु । रेचकश्चाथतृतीयः कुंभकं (च) ततः (परम्) ॥ ७ ॥ ऋषिश्छंदो देवताश्च विनियोगं च वर्णकान् । तत्वादिशक्तिवीजं च शक्तिश्चाथ क्रमास्मरेत् ॥ ८॥ अथहस्ताङ्गदेहेषु कुर्यान्न्यासंत्रयं क्रमात् ।। दिग्बन्धनं च तत्पश्चाद् ध्यायेद्देवी प्रसन्नधीः ॥ ६ ॥
SR No.032671
Book TitleSmruti Sandarbh Part 05
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages768
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy